अधिष्ठानविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना । त्रिंशदङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ १ ॥
adhiṣṭhānavidhiṃ vakṣye śāstre saṃkṣipyate'dhunā | triṃśadaṅgulamārabhya ṣaṭṣaḍaṅgulavardhanāt || 1 ||
अध्यायः १२ · अधिष्ठानविधानम्
adhiṣṭhānavidhānam
A chapter of the Manasara.
201 versesSanskrit with transliteration
अधिष्ठानविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना । त्रिंशदङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥ १ ॥
adhiṣṭhānavidhiṃ vakṣye śāstre saṃkṣipyate'dhunā | triṃśadaṅgulamārabhya ṣaṭṣaḍaṅgulavardhanāt || 1 ||
चतुर्हस्तावसानं स्यात्कुट्टिमद्वादशोन्नतम् । एकद्वादशभूम्यन्तं हर्म्याणां तु क्रमान्न्यसेत् ॥ २ ॥
caturhastāvasānaṃ syātkuṭṭimadvādaśonnatam | ekadvādaśabhūmyantaṃ harmyāṇāṃ tu kramānnyaset || 2 ||
विप्राणां तु चतुर्हस्तं भूपतीनां त्रिहस्तकम् । सार्धद्विहस्तमुत्सेधं युवराजस्य हर्म्यके ॥ ३ ॥
viprāṇāṃ tu caturhastaṃ bhūpatīnāṃ trihastakam | sārdhadvihastamutsedhaṃ yuvarājasya harmyake || 3 ||
द्विहस्तं तु विशां प्रोक्तमेकहस्तं तु शूद्र के । हर्म्यतुङ्गवशात्प्रोक्तं तस्य मासुरकोन्नतम् ॥ ४ ॥
dvihastaṃ tu viśāṃ proktamekahastaṃ tu śūdra ke | harmyatuṅgavaśātproktaṃ tasya māsurakonnatam || 4 ||
जन्मादिवाजनान्तं स्यात्कुट्टिमोदयमीरितम् । तदुत्सेधं चतुर्विंशत्कृत्वाष्टांशं तु वप्रकम् ॥ ५ ॥
janmādivājanāntaṃ syātkuṭṭimodayamīritam | tadutsedhaṃ caturviṃśatkṛtvāṣṭāṃśaṃ tu vaprakam || 5 ||
कुमुदोत्सेध सप्तांशं कम्पमेकेन कारयेत् । कर्णतुङ्ग त्रियशं स्यात्तदूर्ध्वे कम्प शिवांशकम् ॥ ६ ॥
kumudotsedha saptāṃśaṃ kampamekena kārayet | karṇatuṅga triyaśaṃ syāttadūrdhve kampa śivāṃśakam || 6 ||
पट्टिकोच्चं गुणांशं स्यात्कम्पमंशेन योजयेत् । एकोनत्रिंशदंशं तु तुङ्गं कृत्वा विशेषतः ॥ ७ ॥
paṭṭikoccaṃ guṇāṃśaṃ syātkampamaṃśena yojayet | ekonatriṃśadaṃśaṃ tu tuṅgaṃ kṛtvā viśeṣataḥ || 7 ||
द्विभागं जन्मतुङ्गं स्यात्पद्मोच्चं तत्समं भवेत् । कम्पमेकेन कर्तव्यं शेषं प्रागुक्तवन्नयेत् ॥ ८ ॥
dvibhāgaṃ janmatuṅgaṃ syātpadmoccaṃ tatsamaṃ bhavet | kampamekena kartavyaṃ śeṣaṃ prāguktavannayet || 8 ||
अथवा त्रिनवांशोच्चं जन्म चैकेन कारयेत् । शेषं पूर्ववदुद्दिष्टं कुर्यात्तुङ्गे विशेषतः ॥ ९ ॥
athavā trinavāṃśoccaṃ janma caikena kārayet | śeṣaṃ pūrvavaduddiṣṭaṃ kuryāttuṅge viśeṣataḥ || 9 ||
अष्टाविंशकं कृत्वा जन्म द्व्यंशेन कारयेत् । तदूर्ध्वे कम्पमेकांशं वप्रस्योपरिकांशकम् ॥ १० ॥
aṣṭāviṃśakaṃ kṛtvā janma dvyaṃśena kārayet | tadūrdhve kampamekāṃśaṃ vaprasyoparikāṃśakam || 10 ||
युक्त कन्धरं प्रोक्तं शेषं पूर्वोक्तवद्विदुः । एतच्चतुर्विधं प्रोक्त पादबन्धमसूरकम् ॥ ११ ॥
yukta kandharaṃ proktaṃ śeṣaṃ pūrvoktavadviduḥ | etaccaturvidhaṃ prokta pādabandhamasūrakam || 11 ||
उरगबन्धं चतुर्विधम् । अधिष्ठानस्य तुङ्गं तु साष्टांशदशांशकं कृते । सप्तांशं वप्रतुङ्गं तु कुमुदोच्चं रसांशकम् ॥ १२ ॥
uragabandhaṃ caturvidham | adhiṣṭhānasya tuṅgaṃ tu sāṣṭāṃśadaśāṃśakaṃ kṛte | saptāṃśaṃ vapratuṅgaṃ tu kumudoccaṃ rasāṃśakam || 12 ||
कम्पमेकेन कर्तव्यं कन्धरं तत्समं भवेत् । पट्टं च पट्टिकैर्द्व्यंशं कम्पमेकेन कारयेत् ॥ १३ ॥
kampamekena kartavyaṃ kandharaṃ tatsamaṃ bhavet | paṭṭaṃ ca paṭṭikairdvyaṃśaṃ kampamekena kārayet || 13 ||
अथवा द्व्यंशमाधिक्यं तुङ्गं कृत्वा विशेषतः । वाजनं चैकभागं स्यात्तस्याधा कन्धर द्वयम् ॥ १४ ॥
athavā dvyaṃśamādhikyaṃ tuṅgaṃ kṛtvā viśeṣataḥ | vājanaṃ caikabhāgaṃ syāttasyādhā kandhara dvayam || 14 ||
तस्याधो वाजनं चांशं शेषं प्रागुक्तवन्नयेत् । तदेव द्व्यंशमाधिक्यं कुम्भस्योर्ध्वे विशेषतः ॥ १५ ॥
tasyādho vājanaṃ cāṃśaṃ śeṣaṃ prāguktavannayet | tadeva dvyaṃśamādhikyaṃ kumbhasyordhve viśeṣataḥ || 15 ||
कम्पमेकं तथा कर्णं कम्पं तस्योर्ध्वमंशकम् । द्व्यंशं गोपानकं चोर्ध्वे शेषं तत्प्रतिवाजनम् ॥ १६ ॥
kampamekaṃ tathā karṇaṃ kampaṃ tasyordhvamaṃśakam | dvyaṃśaṃ gopānakaṃ cordhve śeṣaṃ tatprativājanam || 16 ||
अथवा तच्चतुर्विंशद्भागं कृत्वा यथोच्छ्रयम् । सप्ताशं वप्रतुङ्गं स्यात्कुमुदोच्चं षडंशकम् ॥ १७ ॥
athavā taccaturviṃśadbhāgaṃ kṛtvā yathocchrayam | saptāśaṃ vapratuṅgaṃ syātkumudoccaṃ ṣaḍaṃśakam || 17 ||
तदूर्ध्वे कम्पमेकांशं कन्धरं तत्समं भवेत् । तदूर्ध्वे वाजनं चांशं कन्धरोच्चं गुणांशकम् ॥ १८ ॥
tadūrdhve kampamekāṃśaṃ kandharaṃ tatsamaṃ bhavet | tadūrdhve vājanaṃ cāṃśaṃ kandharoccaṃ guṇāṃśakam || 18 ||
तत्प्रदेशे विशेषोऽस्ति मकरादिविभूषितम् । तदूर्ध्वे वाजनं चांशं कम्पनं चैकभागिकम् ॥ १९ ॥
tatpradeśe viśeṣo'sti makarādivibhūṣitam | tadūrdhve vājanaṃ cāṃśaṃ kampanaṃ caikabhāgikam || 19 ||
तदूर्ध्वे कम्पमेकांशं शेषं तत्प्रतिवाजनम् । एतच्चतुर्विधं ज्ञात्वोरगबन्धमिति स्मृतम् ॥ २० ॥
tadūrdhve kampamekāṃśaṃ śeṣaṃ tatprativājanam | etaccaturvidhaṃ jñātvoragabandhamiti smṛtam || 20 ||
सर्ववक्त्राकृतिं कुर्यात्तदूर्ध्वे तत्प्रतिद्वयम् । एतच्चतुर्विधाकारं वृत्तं कुम्भं प्रकारयेत् ॥ २१ ॥
sarvavaktrākṛtiṃ kuryāttadūrdhve tatpratidvayam | etaccaturvidhākāraṃ vṛttaṃ kumbhaṃ prakārayet || 21 ||
देवभूसुरभूपानां हर्म्याणां तत्प्रकल्पयेत् । प्रतिक्रमं चतुर्विधम् । एकविंशांशकं तुङ्गे क्षुद्रो पानं शिवांशकम् ॥ २२ ॥
devabhūsurabhūpānāṃ harmyāṇāṃ tatprakalpayet | pratikramaṃ caturvidham | ekaviṃśāṃśakaṃ tuṅge kṣudro pānaṃ śivāṃśakam || 22 ||
सार्धद्व्यंशं तु पद्मं स्यात्तदूर्ध्वे सार्ध कम्पकम् । ऊर्ध्वे वप्रं तु सप्तांशं धाराकुम्भं रसांशकम् ॥ २३ ॥
sārdhadvyaṃśaṃ tu padmaṃ syāttadūrdhve sārdha kampakam | ūrdhve vapraṃ tu saptāṃśaṃ dhārākumbhaṃ rasāṃśakam || 23 ||
आलिङ्गमंशकं चैव तत्समान्तरितं तथा । एकैकपद्मकम्पं वा पट्टं वाथ द्वयांशकम् ॥ २४ ॥
āliṅgamaṃśakaṃ caiva tatsamāntaritaṃ tathā | ekaikapadmakampaṃ vā paṭṭaṃ vātha dvayāṃśakam || 24 ||
गजैरश्वैश्च सिंहैश्च भूषितैः मकरादिभिः । द्वाविंशांशकं कुम्भे कुमुदोर्ध्वे विशेषतः ॥ २५ ॥
gajairaśvaiśca siṃhaiśca bhūṣitaiḥ makarādibhiḥ | dvāviṃśāṃśakaṃ kumbhe kumudordhve viśeṣataḥ || 25 ||
आलिङ्गमंशक चोर्ध्वे चैकांशं वाजनं भवेत् । द्विभागं कन्धरं चैव पट्टिकं वाजनांशकम् ॥ २६ ॥
āliṅgamaṃśaka cordhve caikāṃśaṃ vājanaṃ bhavet | dvibhāgaṃ kandharaṃ caiva paṭṭikaṃ vājanāṃśakam || 26 ||
तद्देशे पूर्ववद्रू पैः सर्वालङ्कारसंयुतम् । शेषं तु पूर्ववत्कुर्यातदेकांशाधिकं तदा ॥ २७ ॥
taddeśe pūrvavadrū paiḥ sarvālaṅkārasaṃyutam | śeṣaṃ tu pūrvavatkuryātadekāṃśādhikaṃ tadā || 27 ||
कुम्भान्तं पूर्ववच्चोर्ध्वे कम्पमेकेन कारयेत् । कन्धरं चैकभागं स्यात्तदूर्ध्वे कम्पमंशकम् ॥ २८ ॥
kumbhāntaṃ pūrvavaccordhve kampamekena kārayet | kandharaṃ caikabhāgaṃ syāttadūrdhve kampamaṃśakam || 28 ||
द्व्यंशेन कर्णमूर्ध्वे तु वाजनं चैकभागिकम् । पूर्ववत्समलङ्कृत्य तत्तुङ्गैकांशमाधिकम् ॥ २९ ॥
dvyaṃśena karṇamūrdhve tu vājanaṃ caikabhāgikam | pūrvavatsamalaṅkṛtya tattuṅgaikāṃśamādhikam || 29 ||
पूर्वोत्तरप्रदेशे तु कम्पनं सान्तरांशकम् । द्व्यंशकं च त्रिपट्टं स्यात्तदूर्ध्वे चान्तरं भवेत् ॥ ३० ॥
pūrvottarapradeśe tu kampanaṃ sāntarāṃśakam | dvyaṃśakaṃ ca tripaṭṭaṃ syāttadūrdhve cāntaraṃ bhavet || 30 ||
प्रतिमं चैवांशमंशं च वाजनं चैव कारयेत् । पूर्ववत्समलङ्कृत्य शेषं प्रागुक्तवन्नयेत् ॥ ३१ ॥
pratimaṃ caivāṃśamaṃśaṃ ca vājanaṃ caiva kārayet | pūrvavatsamalaṅkṛtya śeṣaṃ prāguktavannayet || 31 ||
तैतिलानां च द्विजातीनामालयेषु न्यसेत्क्रमात् । एतत् प्रतिक्रमं नाम्ना तं चतुर्विधमीरितम् ॥ ३२ ॥
taitilānāṃ ca dvijātīnāmālayeṣu nyasetkramāt | etat pratikramaṃ nāmnā taṃ caturvidhamīritam || 32 ||
कुमुदबन्धम् । जन्मादिवाजनान्तं च सप्तविंशांशमुच्छ्रयेत् । द्विभागं जन्मतुङ्गं स्यात्तत्समं चाम्बुजोदयम् ॥ ३३ ॥
kumudabandham | janmādivājanāntaṃ ca saptaviṃśāṃśamucchrayet | dvibhāgaṃ janmatuṅgaṃ syāttatsamaṃ cāmbujodayam || 33 ||
अंशमेकेन कम्पं स्याद्वप्रतुङ्गं षडंशकम् । अंश पद्मं च कर्णं च चांशु पद्मं तथांशकम् ॥ ३४ ॥
aṃśamekena kampaṃ syādvapratuṅgaṃ ṣaḍaṃśakam | aṃśa padmaṃ ca karṇaṃ ca cāṃśu padmaṃ tathāṃśakam || 34 ||
कुमुदोच्चं त्रियंशं स्यात्पद्मतुङ्गं शिवांशकम् । अंशकं पद्मं कर्णान्तं कम्पमब्जांशकं ॥ ३५ ॥
kumudoccaṃ triyaṃśaṃ syātpadmatuṅgaṃ śivāṃśakam | aṃśakaṃ padmaṃ karṇāntaṃ kampamabjāṃśakaṃ || 35 ||
द्विंशं पट्टाब्जमंशं च कम्पमंशेन योजयेत् । पूर्वोत्तुङ्गस्य मानेन पट्टिके तु विशेषतः ॥ ३६ ॥
dviṃśaṃ paṭṭābjamaṃśaṃ ca kampamaṃśena yojayet | pūrvottuṅgasya mānena paṭṭike tu viśeṣataḥ || 36 ||
द्विंशं गोपानसंयुक्तं चोर्ध्वे युक्त्या स्वलङ्कृतम् । केचित्कुमुदकाङ्गे तु त्रिपट्टाश्रममेव वा ॥ ३७ ॥
dviṃśaṃ gopānasaṃyuktaṃ cordhve yuktyā svalaṅkṛtam | kecitkumudakāṅge tu tripaṭṭāśramameva vā || 37 ||
मध्ये पट्टैर्विशेषं तु पुष्परत्नैश्च शोभितम् । कटकावृतमेवं वा शुद्धवृत्तमथापि वा ॥ ३८ ॥
madhye paṭṭairviśeṣaṃ tu puṣparatnaiśca śobhitam | kaṭakāvṛtamevaṃ vā śuddhavṛttamathāpi vā || 38 ||
त्रियश्रं कुमुदं वापि षडश्राकृतिरेव वा । एवमष्टविधं कुर्यात्पद्मकेसरमीरितम् ॥ ३९ ॥
triyaśraṃ kumudaṃ vāpi ṣaḍaśrākṛtireva vā | evamaṣṭavidhaṃ kuryātpadmakesaramīritam || 39 ||
सर्वहर्म्येषु योग्यं स्यात्कारयेच्छिल्पिवित्तमः । नवाधिकविंशाशं तत्तथाधिकतुङ्गके ॥ ४० ॥
sarvaharmyeṣu yogyaṃ syātkārayecchilpivittamaḥ | navādhikaviṃśāśaṃ tattathādhikatuṅgake || 40 ||
जन्मतुङ्गं तद्द्विभागं वेदांशं वप्रतुङ्गकम् । अर्धांशपद्मतुङ्गं तु कन्धरं तत्समं भवेत् ॥ ४१ ॥
janmatuṅgaṃ taddvibhāgaṃ vedāṃśaṃ vapratuṅgakam | ardhāṃśapadmatuṅgaṃ tu kandharaṃ tatsamaṃ bhavet || 41 ||
तत्समं चोर्ध्वपद्मं स्यादेकांशं कुमुदोदयम् । पद्ममध्यर्धं तथा कम्पं कर्णतुङ्गं द्वयांशकम् ॥ ४२ ॥
tatsamaṃ cordhvapadmaṃ syādekāṃśaṃ kumudodayam | padmamadhyardhaṃ tathā kampaṃ karṇatuṅgaṃ dvayāṃśakam || 42 ||
कम्पमर्धं तथा पद्म पट्टिकोच्चं द्वयांशकम् । तदूर्ध्वे पद्ममेकांशं चोर्ध्वकम्पं तु तत्समम् ॥ ४३ ॥
kampamardhaṃ tathā padma paṭṭikoccaṃ dvayāṃśakam | tadūrdhve padmamekāṃśaṃ cordhvakampaṃ tu tatsamam || 43 ||
अर्धार्धं वाथ जन्मोच्चं कम्पमूर्ध्वेऽर्धमेव वा । शेषं प्रागुक्तवत्कुर्यात्तत्तदेतद्विशेषतः ॥ ४४ ॥
ardhārdhaṃ vātha janmoccaṃ kampamūrdhve'rdhameva vā | śeṣaṃ prāguktavatkuryāttattadetadviśeṣataḥ || 44 ||
एकांशं जन्मतुङ्गं स्यादर्धांशं पद्ममेव च । शेषं तु पूर्ववत्कुर्यात्किञ्चिदेवं विशेषतः ॥ ४५ ॥
ekāṃśaṃ janmatuṅgaṃ syādardhāṃśaṃ padmameva ca | śeṣaṃ tu pūrvavatkuryātkiñcidevaṃ viśeṣataḥ || 45 ||
पट्टिके तत्कपोतं वा शेषं युक्त्या प्रयोजयेत् । एतच्चतुर्विधं प्रोक्तं पुष्पपुष्कलनामकम् ॥ ४६ ॥
paṭṭike tatkapotaṃ vā śeṣaṃ yuktyā prayojayet | etaccaturvidhaṃ proktaṃ puṣpapuṣkalanāmakam || 46 ||
क्षुद्र मध्ये तु मुख्ये तु प्रथमाद्यं तु भूमिकम् । तेन हर्म्येषु योग्यं स्यात्कल्पयेच्छिल्पिवित्तमः ॥ ४७ ॥
kṣudra madhye tu mukhye tu prathamādyaṃ tu bhūmikam | tena harmyeṣu yogyaṃ syātkalpayecchilpivittamaḥ || 47 ||
जन्मादिवाजनान्तं स्याद्द्वात्रिंशद्विभाजिते । द्विभागं जन्मतुङ्गं स्यादेकांशेकेन वाजनम् ॥ ४८ ॥
janmādivājanāntaṃ syāddvātriṃśadvibhājite | dvibhāgaṃ janmatuṅgaṃ syādekāṃśekena vājanam || 48 ||
सप्तांशेन महापद्मं कर्णमंशं तथाम्बुजम् । ऊर्ध्वे कुम्भं तु वेदांशं पद्ममेकेन कारयेत् ॥ ४९ ॥
saptāṃśena mahāpadmaṃ karṇamaṃśaṃ tathāmbujam | ūrdhve kumbhaṃ tu vedāṃśaṃ padmamekena kārayet || 49 ||
तदूर्ध्वे कम्पमेकांशं त्र्! यंशकैर्गलमुन्नतम् । कम्पमंशं गलं चांशं गोपानं चतुरंशकम् ॥ ५० ॥
tadūrdhve kampamekāṃśaṃ tr! yaṃśakairgalamunnatam | kampamaṃśaṃ galaṃ cāṃśaṃ gopānaṃ caturaṃśakam || 50 ||
आलिङ्गमंशकं चोर्ध्वे अंशेनान्तरितं तथा । प्रतिमुखं तद्विभागं स्यादूर्ध्वे वाजनमंशकम् ॥ ५१ ॥
āliṅgamaṃśakaṃ cordhve aṃśenāntaritaṃ tathā | pratimukhaṃ tadvibhāgaṃ syādūrdhve vājanamaṃśakam || 51 ||
अथैकांशेन समाधिक्यं महाशोपरि पद्मकम् । जन्मस्योपरि पद्मं वा शिवांशेनांशमाधिकम् ॥ ५२ ॥
athaikāṃśena samādhikyaṃ mahāśopari padmakam | janmasyopari padmaṃ vā śivāṃśenāṃśamādhikam || 52 ||
एतन्महाम्बुजस्याधो कम्पमेकेन कारयेत् । रसांशं तन्महाब्जं स्याच्छेषं प्रागुक्तवन्नयेत् ॥ ५३ ॥
etanmahāmbujasyādho kampamekena kārayet | rasāṃśaṃ tanmahābjaṃ syāccheṣaṃ prāguktavannayet || 53 ||
एतच्चतुर्विधं प्रोक्तं श्रीबन्धमिति नामकम् । चक्रवर्तेश्च विष्णोश्च शिवस्यापि च योग्यकम् ॥ ५४ ॥
etaccaturvidhaṃ proktaṃ śrībandhamiti nāmakam | cakravarteśca viṣṇośca śivasyāpi ca yogyakam || 54 ||
श्रीबन्धं चतुर्विधम् । षड्विंशद्भागमुत्तुङ्गे जन्ममेकांशमीरितम् । वप्रोच्चं तु षडंशं स्यात्कुमुदोच्चं षडंशकम् ॥ ५५ ॥
śrībandhaṃ caturvidham | ṣaḍviṃśadbhāgamuttuṅge janmamekāṃśamīritam | vaproccaṃ tu ṣaḍaṃśaṃ syātkumudoccaṃ ṣaḍaṃśakam || 55 ||
कर्णमेकेन बन्धांशं कर्ण कम्पं शिवांशकम् । पद्ममंशं तदूर्ध्वे तु त्र्! यंशं गोपानकोदयम् ॥ ५६ ॥
karṇamekena bandhāṃśaṃ karṇa kampaṃ śivāṃśakam | padmamaṃśaṃ tadūrdhve tu tr! yaṃśaṃ gopānakodayam || 56 ||
आलिङ्गमंशकं चोर्ध्वे चांशमन्तरितं तथा । प्रतिवक्रं तु युग्मांशं वाजनं चैकभागिकम् ॥ ५७ ॥
āliṅgamaṃśakaṃ cordhve cāṃśamantaritaṃ tathā | prativakraṃ tu yugmāṃśaṃ vājanaṃ caikabhāgikam || 57 ||
अथवा जन्म युग्मांशं तदेव प्रतिकांशकम् । शेषं तु पूर्ववत्कुर्याज्जन्मोर्ध्वे क्षेपणांशकम् ॥ ५८ ॥
athavā janma yugmāṃśaṃ tadeva pratikāṃśakam | śeṣaṃ tu pūrvavatkuryājjanmordhve kṣepaṇāṃśakam || 58 ||
गोपानोपरि चाध्येनौ लिङ्गान्तरितांशकम् । अंशं तत्प्रतिवक्रं स्यादर्धांशश्चार्ध वाजनम् ॥ ५९ ॥
gopānopari cādhyenau liṅgāntaritāṃśakam | aṃśaṃ tatprativakraṃ syādardhāṃśaścārdha vājanam || 59 ||
अथवा जन्म मेकांशं तत्समं चाब्जकं तथा । तदूर्ध्वे कम्पमेकांशं शेषं प्रागुक्तवन्नयेत् ॥ ६० ॥
athavā janma mekāṃśaṃ tatsamaṃ cābjakaṃ tathā | tadūrdhve kampamekāṃśaṃ śeṣaṃ prāguktavannayet || 60 ||
एतच्चतुर्विधं प्रोक्तं मञ्चबन्धमुदीरितम् । देवानां भूपतीनां च हर्म्याणां तत्प्रकल्पयेत् ॥ ६१ ॥
etaccaturvidhaṃ proktaṃ mañcabandhamudīritam | devānāṃ bhūpatīnāṃ ca harmyāṇāṃ tatprakalpayet || 61 ||
मञ्चबन्धं चतुर्विधम् । जन्मादिवाजनान्तं च कृत्वा विंशत्षडाधिकम् । जन्मतुङ्गं तु सार्धांशं युगलं पद्मतुङ्गकम् ॥ ६२ ॥
mañcabandhaṃ caturvidham | janmādivājanāntaṃ ca kṛtvā viṃśatṣaḍādhikam | janmatuṅgaṃ tu sārdhāṃśaṃ yugalaṃ padmatuṅgakam || 62 ||
एवं कम्पं च वप्रोक्तं षडंशं कुम्भ युगांशकम् । तस्योर्ध्वे कम्पमेकांशं कन्धरश्च द्विभागिकम् ॥ ६३ ॥
evaṃ kampaṃ ca vaproktaṃ ṣaḍaṃśaṃ kumbha yugāṃśakam | tasyordhve kampamekāṃśaṃ kandharaśca dvibhāgikam || 63 ||
एकांश कम्पकं चाद्यां पट्टं तत्क्षेपणांशकम् । आलिङ्गं चार्धकं चोर्ध्वे कम्पमेकेन कारयेत् ॥ ६४ ॥
ekāṃśa kampakaṃ cādyāṃ paṭṭaṃ tatkṣepaṇāṃśakam | āliṅgaṃ cārdhakaṃ cordhve kampamekena kārayet || 64 ||
अध्यर्धांशं प्रतिं चैव सार्धांशं वाजनं भवेत् । व्यालरूपादिसिंहैश्च मकराद्यैर्विभूषितम् ॥ ६५ ॥
adhyardhāṃśaṃ pratiṃ caiva sārdhāṃśaṃ vājanaṃ bhavet | vyālarūpādisiṃhaiśca makarādyairvibhūṣitam || 65 ||
द्विभगं जन्मतुङ्गं स्यात्तत्सममम्बुजं भवेत् । एकांशं क्षेपणं चैव वप्रतुङ्गं रसांशकम् ॥ ६६ ॥
dvibhagaṃ janmatuṅgaṃ syāttatsamamambujaṃ bhavet | ekāṃśaṃ kṣepaṇaṃ caiva vapratuṅgaṃ rasāṃśakam || 66 ||
कुमुदोच्चं युगांशं स्यात्कम्पमेकेन कारयेत् । कन्धरं च द्विभागं स्यात्कम्पमंशेन योजयेत् ॥ ६७ ॥
kumudoccaṃ yugāṃśaṃ syātkampamekena kārayet | kandharaṃ ca dvibhāgaṃ syātkampamaṃśena yojayet || 67 ||
पट्टिकोच्चं द्विभागं स्यात्कम्पमंशं तदूर्ध्वके । कर्णमेकेन कर्तव्यं वाजनं चैकभागिकम् ॥ ६८ ॥
paṭṭikoccaṃ dvibhāgaṃ syātkampamaṃśaṃ tadūrdhvake | karṇamekena kartavyaṃ vājanaṃ caikabhāgikam || 68 ||
प्रतिमं चैकांशकं स्याद्वाजनं चैकभागिकम् । त्रिपट्टं कुमुदं वापि प्रतिरेवं त्रिपट्टकम् ॥ ६९ ॥
pratimaṃ caikāṃśakaṃ syādvājanaṃ caikabhāgikam | tripaṭṭaṃ kumudaṃ vāpi pratirevaṃ tripaṭṭakam || 69 ||
शेषं तु पूर्ववत्कुर्यात्प्रत्यलङ्कार पूर्ववत् । तदेव पट्टिकं चोर्ध्वे कन्धरं चैकभागिकम् ॥ ७० ॥
śeṣaṃ tu pūrvavatkuryātpratyalaṅkāra pūrvavat | tadeva paṭṭikaṃ cordhve kandharaṃ caikabhāgikam || 70 ||
शेषं पूर्ववदुद्दिष्टं युक्त्यालङ्कार योजयेत् । एवं चतुर्विधं प्रोक्तं श्रेणीबन्धमिति स्मृतम् ॥ ७१ ॥
śeṣaṃ pūrvavaduddiṣṭaṃ yuktyālaṅkāra yojayet | evaṃ caturvidhaṃ proktaṃ śreṇībandhamiti smṛtam || 71 ||
देवानामपि सर्वेषां हर्म्याणां कल्पयेद्बुधः । श्रेणीबन्धं चतुर्विधम् । अष्टादशांशकं तुङ्गे जन्ममर्धार्धभागिकम् ॥ ७२ ॥
devānāmapi sarveṣāṃ harmyāṇāṃ kalpayedbudhaḥ | śreṇībandhaṃ caturvidham | aṣṭādaśāṃśakaṃ tuṅge janmamardhārdhabhāgikam || 72 ||
अर्धांशं क्षुद्र कम्पं तु भूतांशं तन्महाम्बुजम् । एकांशं कन्धरं चांशं चाब्जं कुम्भं गुणांशकम् ॥ ७३ ॥
ardhāṃśaṃ kṣudra kampaṃ tu bhūtāṃśaṃ tanmahāmbujam | ekāṃśaṃ kandharaṃ cāṃśaṃ cābjaṃ kumbhaṃ guṇāṃśakam || 73 ||
तदूर्ध्वे पद्ममंशं स्यादालिङ्गांशं तदूर्ध्वके । एकांशं वाजनं चोर्ध्वे प्रतिं द्व्यंशमंशं वाजनम् ॥ ७४ ॥
tadūrdhve padmamaṃśaṃ syādāliṅgāṃśaṃ tadūrdhvake | ekāṃśaṃ vājanaṃ cordhve pratiṃ dvyaṃśamaṃśaṃ vājanam || 74 ||
द्वाविंशांशकं कृत्वा पक्षांशं जन्मतुङ्गकम् । क्षुद्रं क्षेपणमर्धांशं सार्धवेदांशकाम्बुजम् ॥ ७५ ॥
dvāviṃśāṃśakaṃ kṛtvā pakṣāṃśaṃ janmatuṅgakam | kṣudraṃ kṣepaṇamardhāṃśaṃ sārdhavedāṃśakāmbujam || 75 ||
एकांशं कन्धरं चोर्ध्वे तत्समं चाब्जकं भवेत् । कुम्भं तुङ्गं गुणांशं च पद्मतुङ्गं शिवांशकम् ॥ ७६ ॥
ekāṃśaṃ kandharaṃ cordhve tatsamaṃ cābjakaṃ bhavet | kumbhaṃ tuṅgaṃ guṇāṃśaṃ ca padmatuṅgaṃ śivāṃśakam || 76 ||
कम्पमेकं तदूर्ध्वे तु कन्धरं चाक्षभागिकम् । क्षेपणं चैकभागं तु पद्मं चैकेन कारयेत् ॥ ७७ ॥
kampamekaṃ tadūrdhve tu kandharaṃ cākṣabhāgikam | kṣepaṇaṃ caikabhāgaṃ tu padmaṃ caikena kārayet || 77 ||
द्विभागं पट्टिकोत्तुङ्गं पद्ममंशमंशं वाजनम् । तस्मादेकांशमाधिक्यं सार्धयुग्मं तु पादुकम् ॥ ७८ ॥
dvibhāgaṃ paṭṭikottuṅgaṃ padmamaṃśamaṃśaṃ vājanam | tasmādekāṃśamādhikyaṃ sārdhayugmaṃ tu pādukam || 78 ||
तदूर्ध्वे कम्पमर्धेन पञ्चांशेन महाम्बुजम् । कन्धरं चैकभागेन पद्ममंशेन योजयेत् ॥ ७९ ॥
tadūrdhve kampamardhena pañcāṃśena mahāmbujam | kandharaṃ caikabhāgena padmamaṃśena yojayet || 79 ||
कुमुदोच्चं गुणांशं स्यात्पद्ममंशं तदूर्ध्वके । कम्पमंशेन संयुक्तं कन्धरं तत्समं भवेत् ॥ ८० ॥
kumudoccaṃ guṇāṃśaṃ syātpadmamaṃśaṃ tadūrdhvake | kampamaṃśena saṃyuktaṃ kandharaṃ tatsamaṃ bhavet || 80 ||
तत्समं वाजनं चोर्ध्वे वन्ह्यंशान्तरितं तथा । द्व्यंशं तत्प्रतिं संयुक्तं वाजनं चैकभागिकम् ॥ ८१ ॥
tatsamaṃ vājanaṃ cordhve vanhyaṃśāntaritaṃ tathā | dvyaṃśaṃ tatpratiṃ saṃyuktaṃ vājanaṃ caikabhāgikam || 81 ||
तस्मादाधिक्यमेकांशं जन्मतुङ्गं कलांशकम् । एकांशं क्षुद्र पद्मोच्चं तदूर्ध्वमंशेन वाजनम् ॥ ८२ ॥
tasmādādhikyamekāṃśaṃ janmatuṅgaṃ kalāṃśakam | ekāṃśaṃ kṣudra padmoccaṃ tadūrdhvamaṃśena vājanam || 82 ||
भूतांशेन महापद्मं तदूर्ध्वांशे दलान्वितम् । शेषं प्रागुक्तवच्चोर्ध्वे गृहसिंहादिभूषितम् ॥ ८३ ॥
bhūtāṃśena mahāpadmaṃ tadūrdhvāṃśe dalānvitam | śeṣaṃ prāguktavaccordhve gṛhasiṃhādibhūṣitam || 83 ||
एतच्चतुर्विधं ज्ञात्वा पद्मबन्धमुदीरितम् । देवानामपि सर्वेषां देवीनां शम्भोरालये ॥ ८४ ॥
etaccaturvidhaṃ jñātvā padmabandhamudīritam | devānāmapi sarveṣāṃ devīnāṃ śambhorālaye || 84 ||
कारयेत्सर्वसंसिद्ध्यै श्रीसौभाग्यप्रदायकम् । पद्मबन्धं चतुर्विधम् । एकविंशांशकोत्सेधं जन्मतुङ्ग कलांशकम् ॥ ८५ ॥
kārayetsarvasaṃsiddhyai śrīsaubhāgyapradāyakam | padmabandhaṃ caturvidham | ekaviṃśāṃśakotsedhaṃ janmatuṅga kalāṃśakam || 85 ||
एकांशं पद्मतुङ्गं तु कम्पमेकेन कारयेत् । भूतांशं कुम्भतुङ्गं स्यादेकांशं क्षेपणं भवेत् ॥ ८६ ॥
ekāṃśaṃ padmatuṅgaṃ tu kampamekena kārayet | bhūtāṃśaṃ kumbhatuṅgaṃ syādekāṃśaṃ kṣepaṇaṃ bhavet || 86 ||
त्रियंशं स्यादधोपद्ममूर्ध्वे कर्णं शिवांशकम् । तत्समं कम्पमूर्ध्वे तु द्विभागं पट्टिकोदयम् ॥ ८७ ॥
triyaṃśaṃ syādadhopadmamūrdhve karṇaṃ śivāṃśakam | tatsamaṃ kampamūrdhve tu dvibhāgaṃ paṭṭikodayam || 87 ||
तदूर्ध्वे कम्पमेकांशं कन्धरं चैकभागिकम् । तदूर्ध्वे द्व्यंशकं पट्टं युक्त्या तत्रैव योजयेत् ॥ ८८ ॥
tadūrdhve kampamekāṃśaṃ kandharaṃ caikabhāgikam | tadūrdhve dvyaṃśakaṃ paṭṭaṃ yuktyā tatraiva yojayet || 88 ||
तदेव तुङ्गभागेन वह्नि सोपानमीरितम् । एकांश पद्मतुङ्गं स्यात्पञ्चांशं कुमुदोदयम् ॥ ८९ ॥
tadeva tuṅgabhāgena vahni sopānamīritam | ekāṃśa padmatuṅgaṃ syātpañcāṃśaṃ kumudodayam || 89 ||
कम्पमेकं तदूर्ध्वे स्याद्बन्धांशं पद्मतुङ्गकम् । तदूर्ध्वे कम्पमेतेन तदूर्ध्वे द्व्यंशकैः गलम् ॥ ९० ॥
kampamekaṃ tadūrdhve syādbandhāṃśaṃ padmatuṅgakam | tadūrdhve kampametena tadūrdhve dvyaṃśakaiḥ galam || 90 ||
क्षेपणं चैकभागं स्यात्पद्ममेकेन कारयेत् । कपोतोच्च द्विभागं स्यात्कम्पमेकं तदूर्ध्वके ॥ ९१ ॥
kṣepaṇaṃ caikabhāgaṃ syātpadmamekena kārayet | kapotocca dvibhāgaṃ syātkampamekaṃ tadūrdhvake || 91 ||
तदेवाब्जं प्रदेशे तु कम्पमेकेन पूर्ववत् । तदूर्ध्वे द्विंश कर्णं स्यात्कम्पमेकं तदूर्ध्वके ॥ ९२ ॥
tadevābjaṃ pradeśe tu kampamekena pūrvavat | tadūrdhve dviṃśa karṇaṃ syātkampamekaṃ tadūrdhvake || 92 ||
द्विंशं चान्तरितं चोर्ध्वे प्रतिं चैकांशमेव च । तदूर्ध्वे वाजनं चांशं शेषं प्रागुक्तवन्नयेत् ॥ ९३ ॥
dviṃśaṃ cāntaritaṃ cordhve pratiṃ caikāṃśameva ca | tadūrdhve vājanaṃ cāṃśaṃ śeṣaṃ prāguktavannayet || 93 ||
जन्मोच्चं त्र्! यंशकं स्यात्पद्ममेकेन कारयेत् । कन्धरं चैकभागं स्यादूर्ध्वे पद्मं शिवांशकम् ॥ ९४ ॥
janmoccaṃ tr! yaṃśakaṃ syātpadmamekena kārayet | kandharaṃ caikabhāgaṃ syādūrdhve padmaṃ śivāṃśakam || 94 ||
कुम्भटुङ्गं शरांशं स्यात्पद्ममेकेन कारयेत् । तदूर्ध्वे कम्पमेकेन कर्णमंशं तदूर्ध्वके ॥ ९५ ॥
kumbhaṭuṅgaṃ śarāṃśaṃ syātpadmamekena kārayet | tadūrdhve kampamekena karṇamaṃśaṃ tadūrdhvake || 95 ||
पद्ममेकं तदूर्ध्वे तु कपोतोच्चं कलांशकम् । आलिङ्गमंशकंचैवमेकांशान्तरितं तथा ॥ ९६ ॥
padmamekaṃ tadūrdhve tu kapotoccaṃ kalāṃśakam | āliṅgamaṃśakaṃcaivamekāṃśāntaritaṃ tathā || 96 ||
प्रतिवाजनमेकेन कुम्भबन्धं चतुर्विधम् । गृहसिंहादिसर्वेषां युक्त्या देशैः लङ्कृतम् ॥ ९७ ॥
prativājanamekena kumbhabandhaṃ caturvidham | gṛhasiṃhādisarveṣāṃ yuktyā deśaiḥ laṅkṛtam || 97 ||
कुम्भबन्धं चतुर्विधम् । उत्सेधे तु चतुर्विंशद्भागं कुर्याद्विशेषतः । जन्मोच्चं तु द्विभागं स्यात्तत्समं पद्मतुङ्गकम् ॥ ९८ ॥
kumbhabandhaṃ caturvidham | utsedhe tu caturviṃśadbhāgaṃ kuryādviśeṣataḥ | janmoccaṃ tu dvibhāgaṃ syāttatsamaṃ padmatuṅgakam || 98 ||
कम्पमेकं तदूर्ध्वे तु कर्णतुङ्गं गुणांशकम् । तदूर्ध्वे कम्पमेकांशं पट्टिकोच्चं कलांशम् ॥ ९९ ॥
kampamekaṃ tadūrdhve tu karṇatuṅgaṃ guṇāṃśakam | tadūrdhve kampamekāṃśaṃ paṭṭikoccaṃ kalāṃśam || 99 ||
तदूर्ध्वे कम्पमंशेन चाधो पद्मं कलांशकम् । कर्णमेकांशकं चोर्ध्वे पद्ममेकांश कारयेत् ॥ १०० ॥
tadūrdhve kampamaṃśena cādho padmaṃ kalāṃśakam | karṇamekāṃśakaṃ cordhve padmamekāṃśa kārayet || 100 ||
तदूर्ध्वे कुम्भ त्र्! यंशं स्यात्पद्ममेकांशमेव च । तदूर्ध्वे निम्नमंशं स्यात्तस्योर्ध्वे कम्पमंशकम् ॥ १०१ ॥
tadūrdhve kumbha tr! yaṃśaṃ syātpadmamekāṃśameva ca | tadūrdhve nimnamaṃśaṃ syāttasyordhve kampamaṃśakam || 101 ||
तदूर्ध्वे तत्समं निम्नमूर्ध्वे प्रतिमेकांशमेव च । तदेव पूर्ववदुत्सेधं पद्मकर्णे विशेषतः ॥ १०२ ॥
tadūrdhve tatsamaṃ nimnamūrdhve pratimekāṃśameva ca | tadeva pūrvavadutsedhaṃ padmakarṇe viśeṣataḥ || 102 ||
मध्ये कुम्भं कलांशं स्यात्तस्योर्ध्वे एकाश निम्नकम् । शेषं प्रगुक्तवत्कुर्यात्तद्भागेन विशेषतः ॥ १०३ ॥
madhye kumbhaṃ kalāṃśaṃ syāttasyordhve ekāśa nimnakam | śeṣaṃ praguktavatkuryāttadbhāgena viśeṣataḥ || 103 ||
द्विभागं जन्मतुङ्गं स्यात्पद्मतुङ्गं तु तत्समम् । निम्नमेकं तदूर्ध्वे तु कुम्भतुङ्गं कलांशकम् ॥ १०४ ॥
dvibhāgaṃ janmatuṅgaṃ syātpadmatuṅgaṃ tu tatsamam | nimnamekaṃ tadūrdhve tu kumbhatuṅgaṃ kalāṃśakam || 104 ||
कम्पमेकं तदूर्ध्वे तु कन्धरं चैकभागिकम् । कम्पमेकं तदूर्ध्वे स्यात्तत्समं चोर्ध्वकम्पकम् ॥ १०५ ॥
kampamekaṃ tadūrdhve tu kandharaṃ caikabhāgikam | kampamekaṃ tadūrdhve syāttatsamaṃ cordhvakampakam || 105 ||
कपोतोच्चं कलांशं स्याद्वाजनं चैकभागिकम् । तदूर्ध्वे सार्ध पद्मं स्यान्निम्नमेकेन कारयेत् ॥ १०६ ॥
kapotoccaṃ kalāṃśaṃ syādvājanaṃ caikabhāgikam | tadūrdhve sārdha padmaṃ syānnimnamekena kārayet || 106 ||
तदूर्ध्वे सार्ध पद्मं तु कुम्भतुङ्गं कलांशकम् । तदूर्ध्वे सार्ध पद्मं स्यान्निम्नमेकेन कारयेत् ॥ १०७ ॥
tadūrdhve sārdha padmaṃ tu kumbhatuṅgaṃ kalāṃśakam | tadūrdhve sārdha padmaṃ syānnimnamekena kārayet || 107 ||
तस्योर्ध्वे क्षेपणांशं तत्समं निम्नमेव च । तस्योर्ध्वे एकं प्रतिं चैव कारयेल्लक्षणान्वितम् ॥ १०८ ॥
tasyordhve kṣepaṇāṃśaṃ tatsamaṃ nimnameva ca | tasyordhve ekaṃ pratiṃ caiva kārayellakṣaṇānvitam || 108 ||
अथवा द्व्यंशकं जन्म तत्समं पद्मस्योच्छ्रयम् । एकांशं कन्धरं प्रोक्तं कुम्भतुङ्गं कलांशकम् ॥ १०९ ॥
athavā dvyaṃśakaṃ janma tatsamaṃ padmasyocchrayam | ekāṃśaṃ kandharaṃ proktaṃ kumbhatuṅgaṃ kalāṃśakam || 109 ||
एकांशमूर्ध्वेऽकं निम्नं च क्षुद्र पट्टाब्जमंशकम् । कपोतं चोर्ध्वके युग्मं तदूर्ध्वे क्षेपणांशकम् ॥ ११० ॥
ekāṃśamūrdhve'kaṃ nimnaṃ ca kṣudra paṭṭābjamaṃśakam | kapotaṃ cordhvake yugmaṃ tadūrdhve kṣepaṇāṃśakam || 110 ||
तदूर्ध्वे चार्धपद्मांशं तत्समं कन्धरं भवेत् । तत्समं चोर्ध्वपद्मं स्यात्कुम्भतुङ्गं गुणांशकम् ॥ १११ ॥
tadūrdhve cārdhapadmāṃśaṃ tatsamaṃ kandharaṃ bhavet | tatsamaṃ cordhvapadmaṃ syātkumbhatuṅgaṃ guṇāṃśakam || 111 ||
अधो पद्मं शिवांशं स्यात्तदूर्ध्वंशेन कन्धरम् । कम्पमेकेन भागं स्यात्क्षुद्रा ब्जं चार्धकं भवेत् ॥ ११२ ॥
adho padmaṃ śivāṃśaṃ syāttadūrdhvaṃśena kandharam | kampamekena bhāgaṃ syātkṣudrā bjaṃ cārdhakaṃ bhavet || 112 ||
अध्यर्धांशं कपोतोर्ध्वं शेषं तत्प्रतिवाजनम् । जन्मादिवाजनान्तं च तुङ्ग षड्विंशदंशके ॥ ११३ ॥
adhyardhāṃśaṃ kapotordhvaṃ śeṣaṃ tatprativājanam | janmādivājanāntaṃ ca tuṅga ṣaḍviṃśadaṃśake || 113 ||
द्विभागं जन्मतुङ्गं स्यात्तत्समं पद्मतुङ्गकम् । कम्पमेकं तदूर्ध्वे तु कन्धरं तद्द्विभागिकम् ॥ ११४ ॥
dvibhāgaṃ janmatuṅgaṃ syāttatsamaṃ padmatuṅgakam | kampamekaṃ tadūrdhve tu kandharaṃ taddvibhāgikam || 114 ||
तदूर्ध्वे कम्पमेकांशं पद्ममेकेन योजयेत् । पट्टिकोच्च द्विभागं स्यात्तदूर्ध्वे पद्ममंशकम् ॥ ११५ ॥
tadūrdhve kampamekāṃśaṃ padmamekena yojayet | paṭṭikocca dvibhāgaṃ syāttadūrdhve padmamaṃśakam || 115 ||
आलिङ्गमंशकं चोर्ध्वे ऊर्ध्वे पद्मं शिवांशकम् । कुम्भतुङ्गं त्रिभागं स्यात्तदूर्ध्वे पद्ममंशकम् ॥ ११६ ॥
āliṅgamaṃśakaṃ cordhve ūrdhve padmaṃ śivāṃśakam | kumbhatuṅgaṃ tribhāgaṃ syāttadūrdhve padmamaṃśakam || 116 ||
पद्ममेकं तदूर्ध्वे तु कन्धरं च द्विभागिकम् । एकेन कम्पमंशाब्जं कपोतोच्चं कलांशकम् ॥ ११७ ॥
padmamekaṃ tadūrdhve tu kandharaṃ ca dvibhāgikam | ekena kampamaṃśābjaṃ kapotoccaṃ kalāṃśakam || 117 ||
शिवांशं चोर्ध्वके कम्पं शेषं युक्त्या प्रयोजयेत् । ग्राहादिचित्र सर्वेषां क्षुद्र नासादिभूषितम् ॥ ११८ ॥
śivāṃśaṃ cordhvake kampaṃ śeṣaṃ yuktyā prayojayet | grāhādicitra sarveṣāṃ kṣudra nāsādibhūṣitam || 118 ||
एतत्पञ्चविधं प्रोक्तं कुम्भदेशे विशेषतः । वृत्तं विधिं त्रिपट्टं वाधाराय कटकान्वितम् ॥ ११९ ॥
etatpañcavidhaṃ proktaṃ kumbhadeśe viśeṣataḥ | vṛttaṃ vidhiṃ tripaṭṭaṃ vādhārāya kaṭakānvitam || 119 ||
एतत्कलशबन्धाख्यं देवभूपत्योरालये । वप्रबन्धम् । वप्रबन्धमधिष्ठानमेकत्रिंशांशतुङ्गके ॥ १२० ॥
etatkalaśabandhākhyaṃ devabhūpatyorālaye | vaprabandham | vaprabandhamadhiṣṭhānamekatriṃśāṃśatuṅgake || 120 ||
जन्मं तु द्व्यंशकं तुङ्गे कम्पमर्धेन कारयेत् । पद्मं सार्धं शिवांशं स्यात्तदूर्ध्वार्धेन वाजनम् ॥ १२१ ॥
janmaṃ tu dvyaṃśakaṃ tuṅge kampamardhena kārayet | padmaṃ sārdhaṃ śivāṃśaṃ syāttadūrdhvārdhena vājanam || 121 ||
वप्रोच्चं सार्धवह्न्यंशं पद्ममर्धमर्धं कम्पम् । कन्धरोच्चं द्विभागं स्यादर्धार्धकम्प पद्मकम् ॥ १२२ ॥
vaproccaṃ sārdhavahnyaṃśaṃ padmamardhamardhaṃ kampam | kandharoccaṃ dvibhāgaṃ syādardhārdhakampa padmakam || 122 ||
पट्टिकोच्चं कलांशं स्यात्पद्ममर्धार्ध वाजनम् । युगांशं कर्णतुङ्गं स्यात्क्षेपणांशम्बुजार्धकम् ॥ १२३ ॥
paṭṭikoccaṃ kalāṃśaṃ syātpadmamardhārdha vājanam | yugāṃśaṃ karṇatuṅgaṃ syātkṣepaṇāṃśambujārdhakam || 123 ||
कपोतोच्चं द्विभागं स्यादेकांशं प्रतिवाजनम् । वप्रबन्धमिति प्रोक्तं वज्रबन्धमिहोच्यते ॥ १२४ ॥
kapotoccaṃ dvibhāgaṃ syādekāṃśaṃ prativājanam | vaprabandhamiti proktaṃ vajrabandhamihocyate || 124 ||
वर्जबन्धम् । तदेव तुङ्गभागेन जन्मतुङ्गं कलांशकम् । तदूर्ध्वेऽर्धेन कम्पं स्यात्सार्धार्धं पद्मतुङ्गकम् ॥ १२५ ॥
varjabandham | tadeva tuṅgabhāgena janmatuṅgaṃ kalāṃśakam | tadūrdhve'rdhena kampaṃ syātsārdhārdhaṃ padmatuṅgakam || 125 ||
अर्धेन कम्पकं चोर्ध्वे कन्धरं तत्समं भवेत् । कम्पमर्धेन तस्योर्ध्वे पद्ममर्धेन कारयेत् ॥ १२६ ॥
ardhena kampakaṃ cordhve kandharaṃ tatsamaṃ bhavet | kampamardhena tasyordhve padmamardhena kārayet || 126 ||
वज्रकुम्भं द्वयांशं स्यात्तदूर्ध्वेऽर्धं सरोरुहम् । कम्पमर्धेन तस्योर्ध्वे कर्णतुङ्गं कलांशकम् ॥ १२७ ॥
vajrakumbhaṃ dvayāṃśaṃ syāttadūrdhve'rdhaṃ saroruham | kampamardhena tasyordhve karṇatuṅgaṃ kalāṃśakam || 127 ||
तदूर्ध्वं कम्पमर्धेन तत्समं चाम्बुजं भवेत् । कपोतं द्विभागं स्यादेकांशं प्रतिवाजनम् ॥ १२८ ॥
tadūrdhvaṃ kampamardhena tatsamaṃ cāmbujaṃ bhavet | kapotaṃ dvibhāgaṃ syādekāṃśaṃ prativājanam || 128 ||
कन्धरं चाश्विनीभागं चांशेन कम्प पद्मकम् । वज्रपट्टं द्विभागं स्यात्पद्म कम्पं शिवांशकम् ॥ १२९ ॥
kandharaṃ cāśvinībhāgaṃ cāṃśena kampa padmakam | vajrapaṭṭaṃ dvibhāgaṃ syātpadma kampaṃ śivāṃśakam || 129 ||
वज्रबन्धमिति प्रोक्तं श्रीभोगं तमिहोच्यते । श्रीभोगम् । तुङ्गे तु सप्तविंशांशं सार्धद्व्यंशेन जन्मसु ॥ १३० ॥
vajrabandhamiti proktaṃ śrībhogaṃ tamihocyate | śrībhogam | tuṅge tu saptaviṃśāṃśaṃ sārdhadvyaṃśena janmasu || 130 ||
क्षुद्र कम्पार्धभागेन अम्बुजोच्चं गुणांशकम् । अर्धेन क्षुद्र पद्मं स्यात्कम्पमर्धेन योजयेत् ॥ १३१ ॥
kṣudra kampārdhabhāgena ambujoccaṃ guṇāṃśakam | ardhena kṣudra padmaṃ syātkampamardhena yojayet || 131 ||
तदूर्ध्वे कर्णमंशं स्यात्कम्पमर्धेन योजयेत् । क्षुद्रा ब्जं तत्समं चैव कुमुदोच्चं गुणांशकम् ॥ १३२ ॥
tadūrdhve karṇamaṃśaṃ syātkampamardhena yojayet | kṣudrā bjaṃ tatsamaṃ caiva kumudoccaṃ guṇāṃśakam || 132 ||
तदूर्ध्वे पद्ममर्धेन तत्समं क्षेपणं भवेत् । कर्णतुङ्गं कलांशं स्यात्कम्पमर्धेन कारयेत् ॥ १३३ ॥
tadūrdhve padmamardhena tatsamaṃ kṣepaṇaṃ bhavet | karṇatuṅgaṃ kalāṃśaṃ syātkampamardhena kārayet || 133 ||
तत्समं पद्मतुङ्गं स्यात्पट्टिकोच्चं कलांशकम् । पद्ममर्धेन कम्पार्धं कन्धरं द्व्यंशमिष्यते ॥ १३४ ॥
tatsamaṃ padmatuṅgaṃ syātpaṭṭikoccaṃ kalāṃśakam | padmamardhena kampārdhaṃ kandharaṃ dvyaṃśamiṣyate || 134 ||
कम्प पद्मं शिवांशं तु सार्धार्धांशं कपोतकम् । तदूर्ध्वे द्व्यंशकेनैवमालिङ्गान्तादि योजयेत् ॥ १३५ ॥
kampa padmaṃ śivāṃśaṃ tu sārdhārdhāṃśaṃ kapotakam | tadūrdhve dvyaṃśakenaivamāliṅgāntādi yojayet || 135 ||
अथवा जन्म युग्मांशं क्षुद्रो पानं शिवांशकम् । महाम्बुजं शिवांशं स्यादर्धेन क्षुद्र पङ्कजम् ॥ १३६ ॥
athavā janma yugmāṃśaṃ kṣudro pānaṃ śivāṃśakam | mahāmbujaṃ śivāṃśaṃ syādardhena kṣudra paṅkajam || 136 ||
अर्धेन कम्प कर्णं दृक्कम्प पद्मं शिवांशकम् । कपोतं चाश्विनीभागमम्बरांशं गलोदयम् ॥ १३७ ॥
ardhena kampa karṇaṃ dṛkkampa padmaṃ śivāṃśakam | kapotaṃ cāśvinībhāgamambarāṃśaṃ galodayam || 137 ||
प्रतिवाजनमेकांशं द्विभागांशं गलोदयम् । व्योमांशं पद्म कम्पं च द्व्यंशकं पट्टिकोदयम् ॥ १३८ ॥
prativājanamekāṃśaṃ dvibhāgāṃśaṃ galodayam | vyomāṃśaṃ padma kampaṃ ca dvyaṃśakaṃ paṭṭikodayam || 138 ||
अध्यर्धांशं गलोत्तुङ्गं वाजनं कम्पमूर्ध्वके । तत्समं पद्मतुङ्गं स्यात्सार्धद्व्यंशं कपोतकम् ॥ १३९ ॥
adhyardhāṃśaṃ galottuṅgaṃ vājanaṃ kampamūrdhvake | tatsamaṃ padmatuṅgaṃ syātsārdhadvyaṃśaṃ kapotakam || 139 ||
द्व्यंशेन प्रतिमं चैव सप्तविंशतिकोदयम् । श्रीभगं स्याद्द्विधा प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १४० ॥
dvyaṃśena pratimaṃ caiva saptaviṃśatikodayam | śrībhagaṃ syāddvidhā proktaṃ sarvālaṅkārasaṃyutam || 140 ||
रत्नबन्धम् । रत्नबन्धमधिष्ठानं षड्विशत्यंशकं भवेत् । अध्यर्धांशं तु जन्म स्यादर्धांशं क्षुद्र वाजनम् ॥ १४१ ॥
ratnabandham | ratnabandhamadhiṣṭhānaṃ ṣaḍviśatyaṃśakaṃ bhavet | adhyardhāṃśaṃ tu janma syādardhāṃśaṃ kṣudra vājanam || 141 ||
वप्रयोशं तु पद्मं स्यात्तदूर्ध्वेऽर्धेनासनम् । रत्नवप्रं तु बन्धांशमर्धेन कारयेत् समम् ॥ १४२ ॥
vaprayośaṃ tu padmaṃ syāttadūrdhve'rdhenāsanam | ratnavapraṃ tu bandhāṃśamardhena kārayet samam || 142 ||
तत्समं चोर्ध्वकम्पं स्यान्निम्नमर्धेन कारयेत् । तदूर्ध्वार्धेन कम्पं स्यादर्धेनाब्जं तदूर्ध्वके ॥ १४३ ॥
tatsamaṃ cordhvakampaṃ syānnimnamardhena kārayet | tadūrdhvārdhena kampaṃ syādardhenābjaṃ tadūrdhvake || 143 ||
रत्नकम्प द्विभागं स्यात्तदूर्ध्वेऽर्धेन कम्पजम् । तदूर्ध्वार्धेन कम्पं स्यात्कन्धरं च द्विभागिकम् ॥ १४४ ॥
ratnakampa dvibhāgaṃ syāttadūrdhve'rdhena kampajam | tadūrdhvārdhena kampaṃ syātkandharaṃ ca dvibhāgikam || 144 ||
कम्पपद्मं शिवांशं स्याद्र त्नपट्टं कलांशकम् । तदूर्ध्वे पद्मकम्पं च व्योमांशेनैव योजयेत् ॥ १४५ ॥
kampapadmaṃ śivāṃśaṃ syādra tnapaṭṭaṃ kalāṃśakam | tadūrdhve padmakampaṃ ca vyomāṃśenaiva yojayet || 145 ||
सार्धांशं तु कर्णं स्यादर्धांशं चोर्ध्ववाजनम् । अर्धेनाब्जं तदूर्ध्वे तु द्वयांशकं कपोतकम् ॥ १४६ ॥
sārdhāṃśaṃ tu karṇaṃ syādardhāṃśaṃ cordhvavājanam | ardhenābjaṃ tadūrdhve tu dvayāṃśakaṃ kapotakam || 146 ||
आलिङ्गं चार्धभागेन शेषं तत्प्रतिवाजनम् । तद्देश व्यालरूपादिमकरादिविभूषितम् ॥ १४७ ॥
āliṅgaṃ cārdhabhāgena śeṣaṃ tatprativājanam | taddeśa vyālarūpādimakarādivibhūṣitam || 147 ||
अन्यत्सर्वाङ्गकै रत्नैः पङ्कजैश्च विभूषितम् । शिवविष्ण्वालयं कुर्याद्र त्नबन्धमुदीरितम् ॥ १४८ ॥
anyatsarvāṅgakai ratnaiḥ paṅkajaiśca vibhūṣitam | śivaviṣṇvālayaṃ kuryādra tnabandhamudīritam || 148 ||
पट्टबन्धम् । जन्मादिवाजनान्तस्य तुङ्गे तदंशकं भवेत् । जन्मतुङ्गं द्विभागं स्यात्तदूर्ध्वेऽर्धेन वाजनम् ॥ १४९ ॥
paṭṭabandham | janmādivājanāntasya tuṅge tadaṃśakaṃ bhavet | janmatuṅgaṃ dvibhāgaṃ syāttadūrdhve'rdhena vājanam || 149 ||
महाब्जं सार्धयुग्मं स्यात्पद्मकम्पं शिवांशकम् । निम्नकम्पं तथैकांशं तदूर्ध्वेकेन पद्मकम् ॥ १५० ॥
mahābjaṃ sārdhayugmaṃ syātpadmakampaṃ śivāṃśakam | nimnakampaṃ tathaikāṃśaṃ tadūrdhvekena padmakam || 150 ||
महापट्ट द्विभागं स्यात्पद्मकम्पं शिवांशकम् । कन्धरं चैकभागं स्यात्क्षेपणाब्जं शरांशकम् ॥ १५१ ॥
mahāpaṭṭa dvibhāgaṃ syātpadmakampaṃ śivāṃśakam | kandharaṃ caikabhāgaṃ syātkṣepaṇābjaṃ śarāṃśakam || 151 ||
कपोतोच्चं द्विभागं स्याच्छेषं तत्प्रतिवाजनम् । एतत्तु पट्टबन्धं स्यात्सर्वालङ्कारसंयुतम् ॥ १५२ ॥
kapotoccaṃ dvibhāgaṃ syāccheṣaṃ tatprativājanam | etattu paṭṭabandhaṃ syātsarvālaṅkārasaṃyutam || 152 ||
कुक्षिबन्धं चतुर्विधम् । त्रिषडंशं तदुत्सेधं द्व्यंशकं जन्मतो उच्छ्रयम् । कम्पमर्धं तदूर्ध्वे तु सार्धद्व्यंशं महाम्बुजम् ॥ १५३ ॥
kukṣibandhaṃ caturvidham | triṣaḍaṃśaṃ tadutsedhaṃ dvyaṃśakaṃ janmato ucchrayam | kampamardhaṃ tadūrdhve tu sārdhadvyaṃśaṃ mahāmbujam || 153 ||
पद्मकम्पं तथैकेन निम्नमन्तरितांशकम् । अध्यर्धांशं प्रतिं चैव वाजनं चैकभागिकम् ॥ १५४ ॥
padmakampaṃ tathaikena nimnamantaritāṃśakam | adhyardhāṃśaṃ pratiṃ caiva vājanaṃ caikabhāgikam || 154 ||
कन्धरं चैकभागं स्यात्कम्पपद्मं शिवांशकम् । वृत्तकुम्भं द्विभागं स्यात्पद्मक्षेपणमंशकम् ॥ १५५ ॥
kandharaṃ caikabhāgaṃ syātkampapadmaṃ śivāṃśakam | vṛttakumbhaṃ dvibhāgaṃ syātpadmakṣepaṇamaṃśakam || 155 ||
कर्णमेकेन तस्योर्ध्वे कम्पपद्मं शिवांशकम् । कपोत सार्धभागं स्यात्तदूर्ध्वार्धेन वाजनम् ॥ १५६ ॥
karṇamekena tasyordhve kampapadmaṃ śivāṃśakam | kapota sārdhabhāgaṃ syāttadūrdhvārdhena vājanam || 156 ||
सर्वालङ्कारसंयुक्तं व्यालग्राहादिभूषितम् । तदेव तुङ्गांशमाधिक्यं जन्मतुङ्गं कलांशकम् ॥ १५७ ॥
sarvālaṅkārasaṃyuktaṃ vyālagrāhādibhūṣitam | tadeva tuṅgāṃśamādhikyaṃ janmatuṅgaṃ kalāṃśakam || 157 ||
तदूर्ध्वेऽर्धेन पद्मं स्यात्कम्पमर्धेन कारयेत् । द्व्यंशं महाम्बुजं चोर्ध्वे पद्मनिम्नं शिवांशकम् ॥ १५८ ॥
tadūrdhve'rdhena padmaṃ syātkampamardhena kārayet | dvyaṃśaṃ mahāmbujaṃ cordhve padmanimnaṃ śivāṃśakam || 158 ||
अर्धेनाब्जं तदूर्ध्वे तु सार्धांशं कुमुदोदयम् । अर्धेनाब्जं तथा कर्णं अर्धेनाब्जं तदूर्ध्वके ॥ १५९ ॥
ardhenābjaṃ tadūrdhve tu sārdhāṃśaṃ kumudodayam | ardhenābjaṃ tathā karṇaṃ ardhenābjaṃ tadūrdhvake || 159 ||
सार्धांशं पट्टिकोत्तुङ्गं पद्मकम्पं शिवांशकम् । अर्धेन निम्नकं चोर्ध्वे तत्समान्तरितं तथा ॥ १६० ॥
sārdhāṃśaṃ paṭṭikottuṅgaṃ padmakampaṃ śivāṃśakam | ardhena nimnakaṃ cordhve tatsamāntaritaṃ tathā || 160 ||
एकांशेन प्रतिं चोर्ध्वे वाजनं चार्धभागिकम् । एकांशं कन्धरं प्रोक्तं कम्पमर्धेन योजयेत् ॥ १६१ ॥
ekāṃśena pratiṃ cordhve vājanaṃ cārdhabhāgikam | ekāṃśaṃ kandharaṃ proktaṃ kampamardhena yojayet || 161 ||
पद्ममर्धेन सार्धांशं कपोतांशेन वाजनम् । एकं तत्प्रतिबन्धं स्याद्द्विविधं तत्प्रकीर्तितम् ॥ १६२ ॥
padmamardhena sārdhāṃśaṃ kapotāṃśena vājanam | ekaṃ tatpratibandhaṃ syāddvividhaṃ tatprakīrtitam || 162 ||
शेषं तु पूर्ववत्कुर्यात्सर्वालङ्कारसंयुतम् । तुङ्गे षड्विंशदंशेन जन्मतुङ्गं कलांशकम् ॥ १६३ ॥
śeṣaṃ tu pūrvavatkuryātsarvālaṅkārasaṃyutam | tuṅge ṣaḍviṃśadaṃśena janmatuṅgaṃ kalāṃśakam || 163 ||
क्षुद्रो पानं शिवांशं स्यात्पद्मतुङ्गं कलांशकम् । एकेन कम्पकं चोर्ध्वे कन्धरं च द्विभागिकम् ॥ १६४ ॥
kṣudro pānaṃ śivāṃśaṃ syātpadmatuṅgaṃ kalāṃśakam | ekena kampakaṃ cordhve kandharaṃ ca dvibhāgikam || 164 ||
तदूर्ध्वे कम्पमेकांशं पद्ममेकेन कारयेत् । पर्यंशं कुमुदोच्चं स्यात्पद्ममेकेन कारयेत् ॥ १६५ ॥
tadūrdhve kampamekāṃśaṃ padmamekena kārayet | paryaṃśaṃ kumudoccaṃ syātpadmamekena kārayet || 165 ||
कम्पमेकं तदूर्ध्वं च द्व्यंशकैर्गलमेव च । तदूर्ध्वे कम्पमेकांशं पद्ममेकेन कारयेत् ॥ १६६ ॥
kampamekaṃ tadūrdhvaṃ ca dvyaṃśakairgalameva ca | tadūrdhve kampamekāṃśaṃ padmamekena kārayet || 166 ||
कपोतोच्चं द्विभागं स्याच्छेषं तत्प्रतिवाजनम् । वृत्तं वा पट्टकम्पं वा कपोतो वापि पट्टिकौ ॥ १६७ ॥
kapotoccaṃ dvibhāgaṃ syāccheṣaṃ tatprativājanam | vṛttaṃ vā paṭṭakampaṃ vā kapoto vāpi paṭṭikau || 167 ||
अध कर्णद्वयोर्देशे व्यालरूपादिभूषितम् । चतुर्विंशांशकं तुङ्गे जन्मोत्सेधं गुणांशकम् ॥ १६८ ॥
adha karṇadvayordeśe vyālarūpādibhūṣitam | caturviṃśāṃśakaṃ tuṅge janmotsedhaṃ guṇāṃśakam || 168 ||
कम्पमीशं तदूर्ध्वे तु निम्नमंशेन कारयेत् । एतदूर्ध्वं पञ्चभागेनैकैकं भद्र संयुतम् ॥ १६९ ॥
kampamīśaṃ tadūrdhve tu nimnamaṃśena kārayet | etadūrdhvaṃ pañcabhāgenaikaikaṃ bhadra saṃyutam || 169 ||
तदूर्ध्वे कम्पमेकेन तत्समं निम्नकं भवेत् । तत्समान्तरितम् चोर्ध्वे भागेन प्रतिसंयुतम् ॥ १७० ॥
tadūrdhve kampamekena tatsamaṃ nimnakaṃ bhavet | tatsamāntaritam cordhve bhāgena pratisaṃyutam || 170 ||
तदूर्ध्वे चांश कम्पं च तत्समं चोर्ध्वकन्धरम् । कम्पमेकं तदूर्ध्वे तु पद्ममेकेन कारयेत् ॥ १७१ ॥
tadūrdhve cāṃśa kampaṃ ca tatsamaṃ cordhvakandharam | kampamekaṃ tadūrdhve tu padmamekena kārayet || 171 ||
कपोतोच्चं त्रियंशं स्यादेकांशं कन्धरं भवेत् । तत्समोर्ध्वे प्रतिं चैव कुम्भमष्टांशमेव च ॥ १७२ ॥
kapotoccaṃ triyaṃśaṃ syādekāṃśaṃ kandharaṃ bhavet | tatsamordhve pratiṃ caiva kumbhamaṣṭāṃśameva ca || 172 ||
कपोते भद्र पट्टं स्यात्पत्रपट्टकमेव च । एतच्चतुर्विधं प्रोक्तं कम्पबन्धं प्रकीर्तितम् ॥ १७३ ॥
kapote bhadra paṭṭaṃ syātpatrapaṭṭakameva ca | etaccaturvidhaṃ proktaṃ kampabandhaṃ prakīrtitam || 173 ||
कम्पबन्धम् । षट्षड्भागकृते तुङ्गे जन्मादी वाजनान्तकम् । चतुर्भागेन जन्म स्यात्क्षुद्रो पानं शिवांशकम् ॥ १७४ ॥
kampabandham | ṣaṭṣaḍbhāgakṛte tuṅge janmādī vājanāntakam | caturbhāgena janma syātkṣudro pānaṃ śivāṃśakam || 174 ||
महाब्जं पञ्चभागं स्यात्क्षुद्रा ब्जं तु शिवांशकम् । तदूर्ध्वे कम्पमेकेन निम्नमंशेन योजयेत् ॥ १७५ ॥
mahābjaṃ pañcabhāgaṃ syātkṣudrā bjaṃ tu śivāṃśakam | tadūrdhve kampamekena nimnamaṃśena yojayet || 175 ||
तदूर्ध्वे वाजनांशं तत्समं चोर्ध्वे पद्मकम् । महाब्जोच्चसमं कुम्भं तदूर्ध्वे चाब्जमंशकम् ॥ १७६ ॥
tadūrdhve vājanāṃśaṃ tatsamaṃ cordhve padmakam | mahābjoccasamaṃ kumbhaṃ tadūrdhve cābjamaṃśakam || 176 ||
कम्पमेकं तदूर्ध्वे तु चालिङ्गोपरि चांशकम् । तदूर्ध्वेऽन्तरितं चांशं प्रति द्व्यंशेन योजयेत् ॥ १७७ ॥
kampamekaṃ tadūrdhve tu cāliṅgopari cāṃśakam | tadūrdhve'ntaritaṃ cāṃśaṃ prati dvyaṃśena yojayet || 177 ||
तस्योर्ध्वे वाजनं चांशं क्षेपणं चैकभागिकम् । तस्योर्ध्वे कन्धरं चांशं कम्पमेकेन कारयेत् ॥ १७८ ॥
tasyordhve vājanaṃ cāṃśaṃ kṣepaṇaṃ caikabhāgikam | tasyordhve kandharaṃ cāṃśaṃ kampamekena kārayet || 178 ||
पद्ममंशं तदूर्ध्वे तु कपोतोच्चं त्रियंशकम् । आलिङ्गमंशकं चोर्ध्वे प्रतिमेकेन कारयेत् ॥ १७९ ॥
padmamaṃśaṃ tadūrdhve tu kapotoccaṃ triyaṃśakam | āliṅgamaṃśakaṃ cordhve pratimekena kārayet || 179 ||
श्रीकान्तम् । वृत्तं वा तत्र पट्टं वा कुम्भं देशे विशेषतः । श्रीकान्तं चतुर्विधं प्रोक्तं सर्वालङ्कारशोभितम् ॥ १८० ॥
śrīkāntam | vṛttaṃ vā tatra paṭṭaṃ vā kumbhaṃ deśe viśeṣataḥ | śrīkāntaṃ caturvidhaṃ proktaṃ sarvālaṅkāraśobhitam || 180 ||
तदेव तुङ्गभागे त्र्! यंशं चोपानतुङ्गकम् । क्षुद्रो पानं तथौकांशं चाष्टांशं महाम्बुजम् ॥ १८१ ॥
tadeva tuṅgabhāge tr! yaṃśaṃ copānatuṅgakam | kṣudro pānaṃ tathaukāṃśaṃ cāṣṭāṃśaṃ mahāmbujam || 181 ||
क्षुद्रा ब्जं चैकभागेन कन्धरं तत्समं भवेत् । पद्ममेकं तदूर्ध्वे तु पट्टिकोच्चं गुणांशकम् ॥ १८२ ॥
kṣudrā bjaṃ caikabhāgena kandharaṃ tatsamaṃ bhavet | padmamekaṃ tadūrdhve tu paṭṭikoccaṃ guṇāṃśakam || 182 ||
क्षुद्र कम्पं शिवांशं स्यात्पद्मतुङ्गं युगांशकम् । क्षुद्रा ब्जं तुङ्गमंशं च निम्नं चोर्ध्वैकभागिकम् ॥ १८३ ॥
kṣudra kampaṃ śivāṃśaṃ syātpadmatuṅgaṃ yugāṃśakam | kṣudrā bjaṃ tuṅgamaṃśaṃ ca nimnaṃ cordhvaikabhāgikam || 183 ||
तत्समं चोर्ध्वपद्मं स्यादूर्ध्वे कुम्भ गुणाशकम् । तदूर्ध्वे कम्पमेकांशं तत्समं क्षेपणान्वितम् ॥ १८४ ॥
tatsamaṃ cordhvapadmaṃ syādūrdhve kumbha guṇāśakam | tadūrdhve kampamekāṃśaṃ tatsamaṃ kṣepaṇānvitam || 184 ||
कन्धरं च द्विभागं स्यात्कम्पमेकेन कारयेत् । पद्मतुङ्गं तु तत्तुल्यं कपोतोच्चं कलांशकम् ॥ १८५ ॥
kandharaṃ ca dvibhāgaṃ syātkampamekena kārayet | padmatuṅgaṃ tu tattulyaṃ kapotoccaṃ kalāṃśakam || 185 ||
तदूर्ध्वमालिङ्गमंशं च प्रतिमेकेन कारयेत् । तत्तत्तु श्रीकान्तं स्याच्छिवविष्ण्वालयं भवेत् ॥ १८६ ॥
tadūrdhvamāliṅgamaṃśaṃ ca pratimekena kārayet | tattattu śrīkāntaṃ syācchivaviṣṇvālayaṃ bhavet || 186 ||
अधिष्ठाननिर्गमम् । जन्मादिवाजनान्तं चाङ्गानां तद्विशेषतः । तत्तद्द्रव्येण संज्ञात्वा वृद्धिहान्यांशकं भवेत् ॥ १८७ ॥
adhiṣṭhānanirgamam | janmādivājanāntaṃ cāṅgānāṃ tadviśeṣataḥ | tattaddravyeṇa saṃjñātvā vṛddhihānyāṃśakaṃ bhavet || 187 ||
तुङ्गे हीनाधिकं चैतत् सर्वं दोषं समुद्भवेत् । तत्समं निर्गमं वापि त्रिपादमर्धार्धार्धमेव च ॥ १८८ ॥
tuṅge hīnādhikaṃ caitat sarvaṃ doṣaṃ samudbhavet | tatsamaṃ nirgamaṃ vāpi tripādamardhārdhārdhameva ca || 188 ||
तदेव क्षेपणं सर्वे यथाशोभं तु कारयेत् । उपानतुङ्गसमं वापि तत्पादोनविवर्धनात् ॥ १८९ ॥
tadeva kṣepaṇaṃ sarve yathāśobhaṃ tu kārayet | upānatuṅgasamaṃ vāpi tatpādonavivardhanāt || 189 ||
तुङ्गेन त्रिविधानां च त्रिपादं निर्गमं भवेत् । वप्रोच्चं तु समं वापि यावत्कुमुदनिर्गमम् ॥ १९० ॥
tuṅgena trividhānāṃ ca tripādaṃ nirgamaṃ bhavet | vaproccaṃ tu samaṃ vāpi yāvatkumudanirgamam || 190 ||
कुमुदोच्चं वप्रपट्टान्तं पट्टिकानिर्गमं भवेत् । तत्समं निर्गमं वपि पट्टं गोपाननिर्गमम् ॥ १९१ ॥
kumudoccaṃ vaprapaṭṭāntaṃ paṭṭikānirgamaṃ bhavet | tatsamaṃ nirgamaṃ vapi paṭṭaṃ gopānanirgamam || 191 ||
क्षुद्र पङ्कजसर्वेषां तत्समं निर्गमं भवेत् । यथाशोभं बलात्सर्वमङ्गानां सहितो न्यसेत् ॥ १९२ ॥
kṣudra paṅkajasarveṣāṃ tatsamaṃ nirgamaṃ bhavet | yathāśobhaṃ balātsarvamaṅgānāṃ sahito nyaset || 192 ||
दण्डमाननिर्गमम् । अथवा दण्डमानेन निर्गमं वक्ष्यतेऽधुना । दण्डं वा सार्धदण्डं वा द्विदण्डकं वा त्रिदण्डकम् ॥ १९३ ॥
daṇḍamānanirgamam | athavā daṇḍamānena nirgamaṃ vakṣyate'dhunā | daṇḍaṃ vā sārdhadaṇḍaṃ vā dvidaṇḍakaṃ vā tridaṇḍakam || 193 ||
सार्धत्रिदण्डकं वापि चतुर्दण्डमथापि वा । सार्धचतुर्दण्डकं वा पञ्चदण्डमथापि वा ॥ १९४ ॥
sārdhatridaṇḍakaṃ vāpi caturdaṇḍamathāpi vā | sārdhacaturdaṇḍakaṃ vā pañcadaṇḍamathāpi vā || 194 ||
एवं चोपानानिष्क्रान्तमथवा हस्तमानतः । अर्धहस्तं समारभ्य त्रित्र्! यङ्गुलविवर्धनात् ॥ १९५ ॥
evaṃ copānāniṣkrāntamathavā hastamānataḥ | ardhahastaṃ samārabhya tritr! yaṅgulavivardhanāt || 195 ||
सार्धहस्तावसानं स्यान्निर्गमं त्रित्रिभेदकम् । क्षुद्र मध्यं च मुख्यानां हर्म्याणां निर्गमं च तत् ॥ १९६ ॥
sārdhahastāvasānaṃ syānnirgamaṃ tritribhedakam | kṣudra madhyaṃ ca mukhyānāṃ harmyāṇāṃ nirgamaṃ ca tat || 196 ||
एवं चतुःषष्टिमसूरकाणि । शास्त्रोक्तमानेन विभाजितानि । ज्ञात्वा प्रकुर्वन्निह शिल्पिवर्य । स्तद्वास्तुभर्तुः प्रददाति संपत् ॥ १९७ ॥
evaṃ catuḥṣaṣṭimasūrakāṇi | śāstroktamānena vibhājitāni | jñātvā prakurvanniha śilpivarya | stadvāstubhartuḥ pradadāti saṃpat || 197 ||
विमानशालेषु च मण्डपेषु । निधानसद्मेष्वपि गोपुरेष्वपि । एतेष्वधोदेशतलोपपीठे । तस्योपरिष्ठात्कृतकुट्टिमानि ॥ १९८ ॥
vimānaśāleṣu ca maṇḍapeṣu | nidhānasadmeṣvapi gopureṣvapi | eteṣvadhodeśatalopapīṭhe | tasyopariṣṭhātkṛtakuṭṭimāni || 198 ||
किं चोपपीठेन सहैव कुर्यात् । पीठोपपीठात्समसूत्रकानि । एवं तु सत्यकृतेव भक्तौ । सिञ्चन्ति लक्ष्म्या सह मुक्तिभुक्तिम् ॥ १९९ ॥
kiṃ copapīṭhena sahaiva kuryāt | pīṭhopapīṭhātsamasūtrakāni | evaṃ tu satyakṛteva bhaktau | siñcanti lakṣmyā saha muktibhuktim || 199 ||
समस्तहर्म्यादि च धातुसर्वं । कृतं विमान मसुरेण सह यदि स्यात् । लोकेत्वनावृष्ट्यपि कर्तृनाशं तु । अश्रीकरं स्यात्खलु सर्वहानिः ॥ २०० ॥
samastaharmyādi ca dhātusarvaṃ | kṛtaṃ vimāna masureṇa saha yadi syāt | loketvanāvṛṣṭyapi kartṛnāśaṃ tu | aśrīkaraṃ syātkhalu sarvahāniḥ || 200 ||
तस्मान्मसूरेण सहैव सर्वं । कृतं विमानेषु च भूषणानि । अनूनलक्ष्मीरिह भुक्तिमुक्तिम् । आयुष्यमारोग्यकरं सुखं च ॥ २०१ ॥
tasmānmasūreṇa sahaiva sarvaṃ | kṛtaṃ vimāneṣu ca bhūṣaṇāni | anūnalakṣmīriha bhuktimuktim | āyuṣyamārogyakaraṃ sukhaṃ ca || 201 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).