Atharva Veda 18.3
A funeral hymn, taken partly from the Rigveda
इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् । धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥ १ ॥ उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥ २ ॥ अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् । अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥ ३ ॥ प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती । अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥ ४ ॥ उप द्यामुप वेतसमवत्तरो नदीनाम् । अग्ने पित्तमपामसि ॥ ५ ॥ यं त्वमग्ने समदहस्तमु निर्वापय पुनः । क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥ ६ ॥ इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥ ७ ॥ उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे । तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥ ८ ॥ प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् । मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥ ९ ॥ वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन । चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥ १० ॥ {१३} वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् । रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥ ११ ॥ मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु । वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥ १२ ॥ यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥ १३ ॥ परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः । दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥ १४ ॥ कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः । विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥ १५ ॥ विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव । शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥ १६ ॥ कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः । आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥ १७ ॥ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥ १८ ॥ यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत । ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥ १९ ॥ ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥ २० ॥ {१४} अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः । शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥ २१ ॥ सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः । शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥ २२ ॥ आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः । मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥ २३ ॥ अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः । विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥ २४ ॥ इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २५ ॥ धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २६ ॥ अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २७ ॥ सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २८ ॥ धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २९ ॥ प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३० ॥ {१५} दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३१ ॥ प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३२ ॥ उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३३ ॥ ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३४ ॥ ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३५ ॥ धर्तासि धरुनोऽसि वंसगोऽसि ॥ ३६ ॥ उदपूरसि मधुपूरसि वातपूरसि ॥ ३७ ॥ इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् । प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥ ३८ ॥ स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः । वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥ ३९ ॥ त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन । अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥ ४० ॥ {१६} देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत । बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥ ४१ ॥ त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥ ४२ ॥ आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ ४३ ॥ अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥ ४४ ॥ उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ ४५ ॥ ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः । तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥ ४६ ॥ ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः ॥ ४७ ॥ ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण । आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः ॥ ४८ ॥ उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात् ॥ ४९ ॥ उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा । माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥ ५० ॥ {१७} उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥ ५१ ॥ उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् । एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥ ५२ ॥ इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् । अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥ ५३ ॥ अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते । तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानीम् ॥ ५४ ॥ यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥ ५५ ॥ पयस्वतीरोषधयः पयस्वन् मामकं पयः । अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥ ५६ ॥ इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् । अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥ ५७ ॥ सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥ ५८ ॥ ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥ ५९ ॥ शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् । शीतिके शीतिकावति ह्लादिके ह्लादिकावति । मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥ ६० ॥ {१८} विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः । इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥ ६१ ॥ विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु । इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥ ६२ ॥ यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् । तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥ ६३ ॥ आ रोहत दिवमुत्तमामृषयो मा बिभीतन । सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥ ६४ ॥ प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति । दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥ ६५ ॥ नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥ ६६ ॥ इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥ ६७ ॥ अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् । ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ ६८ ॥ यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः । तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥ ६९ ॥ पुनर्देहि वनस्पते य एष निहितस्त्वयि । यथा यमस्य सादन आसातौ विदथा वदन् ॥ ७० ॥ आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते । शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥ ७१ ॥ ये ते पूर्वे परागता अपरे पितरश्च ये । तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥ ७२ ॥ एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते । अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥ ७३ ॥
iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam | dharmaṃ purāṇamanupālayantī tasyai prajāṃ draviṇaṃ ceha dhehi || 1 || udīrṣva nāryabhi jīvalokaṃ gatāsumetamupa śeṣa ehi | hastagrābhasya dadhiṣostavedaṃ patyurjanitvamabhi saṃ babhūtha || 2 || apaśyaṃ yuvatiṃ nīyamānāṃ jīvāṃ mṛtebhyaḥ pariṇīyamānām | andhena yattamasā prāvṛtāsītprākto apācīmanayaṃ tadenām || 3 || prajānatyaghnye jīvalokaṃ devānāṃ panthāmanusaṃcarantī | ayaṃ te gopatistaṃ juṣasva svargaṃ lokamadhi rohayainam || 4 || upa dyāmupa vetasamavattaro nadīnām | agne pittamapāmasi || 5 || yaṃ tvamagne samadahastamu nirvāpaya punaḥ | kyāmbūratra rohatu śāṇḍadūrvā vyalkaśā || 6 || idaṃ ta ekaṃ pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva | saṃveśane tanvā cāruredhi priyo devānāṃ parame sadhasthe || 7 || uttiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe | tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ || 8 || pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram | mano niviṣṭamanusaṃviśasva yatra bhūmerjuṣase tatra gaccha || 9 || varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena | cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu || 10 || {13} varcasā māṃ samanaktvagnirmedhāṃ me viṣṇurnyanaktvāsan | rayiṃ me viśve ni yacchantu devāḥ syonā māpaḥ pavanaiḥ punantu || 11 || mitrāvaruṇā pari māmadhātāmādityā mā svaravo vardhayantu | varco ma indro nyanaktu hastayorjaradaṣṭiṃ mā savitā kṛṇotu || 12 || yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokametam | vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata || 13 || parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ | datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta || 14 || kaṇvaḥ kakṣīvān purumīḍho agastyaḥ śyāvāśvaḥ sobharyarcanānāḥ | viśvāmitro'yaṃ jamadagniratriravantu naḥ kaśyapo vāmadevaḥ || 15 || viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva | śardirno atriragrabhīn namobhiḥ susaṃśāsaḥ pitaro mṛḍatā naḥ || 16 || kasye mṛjānā ati yanti ripramāyurdadhānāḥ prataraṃ navīyaḥ | āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu || 17 || añjate vyañjate samañjate kratuṃ rihanti madhunābhyañjate | sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāsu gṛhnate || 18 || yadvo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta | te arvāṇaḥ kavaya ā śṛṇota suvidatrā vidathe huyamānāḥ || 19 || ye atrayo aṅgiraso navagvā iṣṭāvanto rātiṣāco dadhānāḥ | dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam || 20 || {14} adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtamāśaśānāḥ | śucīdayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīrapa vran || 21 || sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ | śucanto agniṃ vāvṛdhanta indramurvīṃ gavyāṃ pariṣadaṃ no akran || 22 || ā yūtheva kṣumati paśvo akhyaddevānāṃ janimāntyugraḥ | martāsaścidurvaśīrakṛpran vṛdhe cidarya uparasyāyoḥ || 23 || akarma te svapaso abhūma ṛtamavasrann uṣaso vibhātīḥ | viśvaṃ tadbhadraṃ yadavanti devā bṛhadvadema vidathe suvīrāḥ || 24 || indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 25 || dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 26 || aditirmādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 27 || somo mā viśvairdevairudīcyā diśaḥ pātu bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 28 || dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 29 || prācyāṃ tvā diśi purā samvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 30 || {15} dakṣiṇāyāṃ tvā diśi purā samvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 31 || pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 32 || udīcyāṃ tvā diśi purā samvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 33 || dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 34 || ūrdhvāyāṃ tvā diśi purā samvṛtaḥ svadhāyāmā dadhāmi bāhucyutā pṛthivī dyāmivopari | lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha || 35 || dhartāsi dharuno'si vaṃsago'si || 36 || udapūrasi madhupūrasi vātapūrasi || 37 || itaśca māmutaścāvatāṃ yame iva yatamāne yadaitam | pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svamu lokaṃ vidāne || 38 || svāsasthe bhavatamindave no yuje vāṃ brahma pūrvyaṃ namobhiḥ | vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat || 39 || trīṇi padāni rupo anvarohaccatuṣpadīmanvetadvratena | akṣareṇa prati mimīte arkamṛtasya nābhāvabhi saṃ punāti || 40 || {16} devebhyaḥ kamavṛṇīta mṛtyuṃ prajāyai kimamṛtaṃ nāvṛṇīta | bṛhaspatiryajñamatanuta ṛṣiḥ priyāṃ yamastanvamā rireca || 41 || tvamagna īḍito jātavedo'vāḍḍhavyāni surabhīṇi kṛtvā | prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi || 42 || āsīnāso aruṇīnāmupasthe rayiṃ dhatta dāśuṣe martyāya | putrebhyaḥ pitarastasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta || 43 || agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ | atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta || 44 || upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu | ta ā gamantu ta iha śruvantvadhi bruvantu te'vantvasmān || 45 || ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ | tebhiryamaḥ samrarāṇo havīṃṣyuśann uśadbhiḥ pratikāmamattu || 46 || ye tātṛṣurdevatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ | āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhirṛṣibhirgharmasadbhiḥ || 47 || ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa | āgne yāhi suvidatrebhirarvāṅparaiḥ pūrvairṛṣibhirgharmasadbhiḥ || 48 || upa sarpa mātaraṃ bhūmimetāmuruvyacasaṃ pṛthivīṃ suśevām | ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt || 49 || ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā | mātā putraṃ yathā sicābhyenaṃ bhūma ūrṇuhi || 50 || {17} ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām | te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santvatra || 51 || utte stabhnāmi pṛthivīṃ tvatparīmaṃ logaṃ nidadhan mo ahaṃ riṣam | etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu || 52 || imamagne camasaṃ mā vi jihvaraḥ priyo devānāmuta somyānām | ayaṃ yaścamaso devapānastasmin devā amṛtā mādayantām || 53 || atharvā pūrṇaṃ camasaṃ yamindrāyābibharvājinīvate | tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānīm || 54 || yatte kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ | agniṣṭadviśvādagadaṃ kṛṇotu somaśca yo brāhmaṇāmāviveśa || 55 || payasvatīroṣadhayaḥ payasvan māmakaṃ payaḥ | apāṃ payaso yatpayastena mā saha śumbhatu || 56 || imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṃ spṛśantām | anaśravo anamīvāḥ suratnā ā rohantu janayo yonimagre || 57 || saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman | hitvāvadyaṃ punarastamehi saṃ gacchatāṃ tanvā suvarcāḥ || 58 || ye naḥ pituḥ pitaro ye pitāmahā ya āviviśururvantarikṣam | tebhyaḥ svarādasunītirno adya vathāvaśaṃ tanvaḥ kalpayāti || 59 || śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām | śītike śītikāvati hlādike hlādikāvati | maṇḍūkyapsu śaṃ bhuva imaṃ svagniṃ śamaya || 60 || {18} vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ | iheme vīrā bahavo bhavantu gomadaśvavan mayyastu puṣṭam || 61 || vivasvān no amṛtatve dadhātu paraitu mṛtyuramṛtaṃ na aitu | imān rakṣatu puruṣān ā jarimṇo mo sveṣāmasavo yamaṃ guḥ || 62 || yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatirmatīnām | tamarcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt || 63 || ā rohata divamuttamāmṛṣayo mā bibhītana | somapāḥ somapāyina idaṃ vaḥ kriyate haviraganma jyotiruttamam || 64 || pra ketunā bṛhatā bhātyagnirā rodasī vṛṣabho roravīti | divaścidantādupamāmudānaḍapāmupasthe mahiṣo vavardha || 65 || nāke suparṇamupa yatpatantaṃ hrdā venanto abhyacakṣata tvā | hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuranyum || 66 || indra kratuṃ na ā bhara pitā putrebhyo yathā | śikṣā ṇo asmin puruhūta yāmani jīvā jyotiraśīmahi || 67 || apūpāpihitān kumbhān yāṃste devā adhārayan | te te santu svadhāvanto madhumanto ghṛtaścutaḥ || 68 || yāste dhānā anukirāmi tilamiśrā svadhāvatīḥ | tāste santu vibhvīḥ prabhvīstāste yamo rājānu manyatām || 69 || punardehi vanaspate ya eṣa nihitastvayi | yathā yamasya sādana āsātau vidathā vadan || 70 || ā rabhasva jātavedastejasvaddharo astu te | śarīramasya saṃ dahāthainaṃ dehi sukṛtāmu loke || 71 || ye te pūrve parāgatā apare pitaraśca ye | tebhyo ghṛtasya kulyaitu śatadhārā vyundatī || 72 || etadā roha vaya unmṛjānaḥ svā iha bṛhadu dīdayante | abhi prehi madhyato māpa hāsthāḥ pitṝnāṃ lokaṃ prathamo yo atra || 73 ||
1 Choosing her husband's world, O man, this woman lays herself down beside thy lifeless body. p. 192 Preserving faithfully the ancient custom. Bestow upon here both wealth and offspring. 2 Rise, come unto the world of life, O woman: come, he is lifeless by whose side thou liest. Wifehood with this thy husband was thy portion who took thy hand and wooed thee as a lover. 3 I looked and saw the youthful dame escorted, the living to the dead: I saw them, bear her. When she with blinding darkness was enveloped, then did I turn her back and lead her homeward. 4 Knowing the world of living beings, Aghnyā! treading the path. of Gods which lies before thee, This is thy husband: joyfully receive him and let him mount into the world of Svarga. 5 The speed of rivers craving heaven and cane, thou, Agni, art the waters' gall. 6 Cool, Agni, and again refresh the spot which thou hast scorched and burnt. Here let the water-lily grow, and tender grass and leafy plant. 7 Here is one light for thee, another yonder: enter the third and be therewith united. Uniting with a body be thou lovely, dear to the Gods in their sublimest mansion. 8 Rise up, advance, run forward: make thy dwelling in water that shall be thy place to rest in There dwelling in accordance with the Fathers delight thyself with Soma and libations. 9 Prepare thy body: speed thou on thy journey: let not thy limbs,. thy frame be left behind thee. Follow to its repose thy resting spirit: go to whatever spot of earth thou lovest. 10 With splendour may the Fathers, meet for Soma, with mead and. fatness may the Gods anoint me. Lead me on farther to extended vision, and prosper me through life of long duration. 11 May Agni balm me thoroughly with splendour; may Vishnu. touch my lips with understanding. May all the Deities vouchsafe me riches, and pleasant Waters purify and cleanse me. p. 193 12 Mitra and Varuna have stood about me. Ādityas, Sacirifical Posts exalt me! May Indra balm my hands with strength and splendour. A long, long life may Savitar vouchsafe me. 13 Worship with sacrificial gift King Yama, Vivasvān's son who gathers men together, Yama who was the first to die of mortals, the first who travelled to the world before us. 14 Depart, O Fathers, and again come hither; this sacrifice of yours is balmed with sweetness. Enrich us here with gift of great possessions; grant blessed wealth with ample store of heroes. 15 Kanva, Kakshivān, Purumidha, Agastya, Syāvāsva Sobhari, and Archanānas, This Visvāmitra, Jamadagni, Atri, Kasyapa, Vāmadeva be our helpers! 16 Vasishtha, Jamadagni, Visvāmitra, Gotama, Vāmadeva, Bhara- dvaja! Atri hath won your favour with homage. Gracious to us be ye praiseworthy Fathers. 17 They, making for themselves a new existence, wash off defilement in the brazen vessel. May we be fragrant in our houses, ever increasing in our children and our riches. 18 They balm him, balm him over, balm him thoroughly, caress the mighty power and balm it with the mead, They seize the flying steer at the stream's breathing-place: cleansing with gold they grasp the animal herein. 19 Fathers, be glorious in yourselves, and follow all that is glad in you and meet for Soma. Give ear and listen, swiftly-moving Sages, benevolent, invoked in our assembly. 20 Atris, Angirases, Navagvas, givers of liberal gifts, continual sacrificers, Devout and pious, granting guerdon freely, sit on this holy grass and be ye joyful. 21 As in the days of old our ancient Fathers, speeding the work of sacred worship, Agni! Sought pure light and devotion, singing praises, they cleft the ground and made red Dawns apparent. p. 194 22 Gods, doing holy acts, devout, resplendent, smelting like ore their human generation, Brightening Agni and exalting Indra, they came encompassing the stall of cattle. 23 Strong One! he marked them, and the gods before them, like herds of cattle in a foodful pasture. There man moaned forth their strong desires, to strengthen even the true; the nearest One, the living. 24 We have worked for thee, we have toiled and laboured: bright Dawns have shed their light upon our worship. All that the Gods regard with love is blessed. Loud may we speak, with heroes, in assembly. 25 From eastward Indra, Lord or Maruts, guard me, as in her arms Earth guards the heaven above us! Those who give room, who made the paths, we worship, you, mid the Gods, who share the gifts we offer. 26 Dhātar with Nirriti save me from southward, etc. (as in stanza 25). 27 From westward Aditi was Ādityas save me! etc. 28 From westward with the All-Gods save me Soma! etc. 29 May the strong firm Sustainer bear thee upright, as Savitar bears light above the heaven. Those who give room, who made the paths, we worship, you mid the Gods, whe share the gifts we offer. 30 Toward the eastward region I supply thee before thou goest homeward, with oblation, as in her arms, etc. (as in stanza 25). 31 Toward the southern region, etc. 32 Toward the western region, etc. 33 Toward the northern region, etc. 34 Toward the stedfast region, etc. 35 Toward the upmost region I supply thee, before thou goest homeward, with oblation, as in her arms Earth bears the heaven above us. Those who give room, who made the paths, we worship, you, mid the Gods, who share the gifts we offer. 36 Thou art the Bull, Supporter, and Upholder, 37 Who purifiest wind and mead and water. 38 From this side and from that let both assist me. As, speeding, ye have come like two twin sisters, p. 195 Religious-hearted votaries brought you forward. Knowing your several places be ye seated. 39 Sit near, sit very near beside our Soma: for you I fit the ancient prayer with homage. The praise-song, like a chieftain on his pathway, spreads far and wide. Let all Immortals hear it. 40 Three paces hath the stake gone up, and followed her, the four- footed, with devout observance. He with the Syllable copies the praise-song; he thoroughly purifies at Order's centre. 41 Chose he then, death for Gods to be their portion? Why chose he not for men a life eternal? Brihaspati span sacrifice, the Rishi; and Yama yielded up his own dear body. 42 Thou, Agni Jātavedas, when entreated, didst bear our offerings, having made them fragrant. And give them to the Fathers who consumed them with Svadhā. Eat, thou God, the gifts we bring thee. 43 Lapped in the bosom of the purple Mornings, give riches to the man who brings oblations. Grant to your sons a portion of that treasure, and, present, give them energy, O Fathers. 44 Fathers whom Agni's flames have tasted, come ye nigh: in per- fect order take ye each your proper place. Eat sacrificial food presented on the grass: grant riches with a multitude of hero sons. 45 May they, the Fathers who deserve the Soma, invited to their favourite oblations. Laid on the sacred grass, come nigh and listen. May they be gracious unto us and bless us. 46 Our Father's Fathers and their sires before them who came, most noble, to the Soma banquet, With these let Yama, yearning with the yearning, rejoicing eat our offerings at his pleasure. 47 Come to us, Agni, with the gracious Fathers who dwell in glow- ing light, the very Sages, Who thirsted mid the Gods, who hasten hither, oblation-winners, theme of singers' praises. 48 Come, Agni, come with countless ancient Fathers, dwellers in light, primeval, God-adorers, p. 196 Eaters and drinkers of oblation, truthful, who travel with the Deities and Indra. 49 Betake thee to the lap of Earth, our mother, of Earth far-spread- ing, very kind and gracious. May she, wool-soft unto the guerdon-giver, guard thee in front upon the distant pathway. 50 Heave thyself, Earth, nor press him downward heavily: afford him easy access pleasant to approach, Cover him as a mother wraps her skirt about her child, O Earth! 51 Now let the heaving earth be free from motion: yea, let a thousand clods remain above him. Be they to him a home distilling fatness: here let them ever be his place of refuge. 52 I stay the earth from thee, while over thee I place this piece of earth. May I be free from injury. The Fathers firmly fix this pillar here for thee; and there let Yama make thee an abiding-place. 53 Forbear, O Agni, to upset this chalice: the Gods and they who merit Soma love it. This cup, yea this which serves the Gods to drink from,—in this let the Immortals take their pleasure. 54 The chalice brimming o'er which erst Atharvan offered to Indra, Lord of wealth and treasure, Indu therein sets draught of virtuous action, and ever purifies himself within it. 55 What wound soe'er the dark bird hath inflicted, the emmet, or the serpent, or the jackal, May Agni who devoureth all things heal it, and Soma, who hath passed into the Brāhmans. 56 The plants of earth are rich in milk, and rich in milk is this my milk. With all the milky essence of the Waters let them make me clean. 57 Let these unwidowed dames with goodly husbands adorn them- selves with fragrant balm and unguent. Decked with fair jewels, tearless, free, from trouble, first let the dames go up to where he lieth. 58 Meet Yama, meet the Fathers, meet the merit of virtuous action in the loftiest heaven. p. 197 Leave sin and evil, seek anew thy dwelling: so bright with glory let him join his body. 59 Our Father's Fathers and their sires before them, they who have entered into air's wide region, For them shall self-resplendent Asuniti form bodies now accord- ing to her pleasure. 60 Let the hoar-frost be sweet to thee. sweetly on thee the rain descend! O full of coolness, thou cool Plant, full of fresh moisture, fresh- ening Herb, Bless us in waters, female Frog: calm and allay this Agni here. 61 Vivasvān make us free from fear and peril, good rescuer, quick- pouring, bounteous giver! Many in number be these present heroes! Increase of wealth be mine in kine and horses! 62 In immortality Vivasvān set us! Go from us Death, come to us life eternal! To good old age may he protect these people: let not their spirits pass away to Yama. 63 The Sage of Fathers, guardian of devotions who holds thee up with might in air's mid-region,— Praise him ye Visvāmitras, with oblation. To lengthened life shall be, this Yama, lead us. 64 Mount and ascend to highest heaven, O Rishis: be ye not afraid. Soma-drinkers to you is paid this Soma-lover's sacrifice. We have attained the loftiest light. 65 Agni is shining forth with lofty banner: the Bull is bellowing to earth and heaven. From the sky's limit even hath he stretched near us: the Steer hath waxen in the waters' bosom. 66 They gaze on thee with longing in their spirit, as on an eagle that is mounting skyward; On thee with wings of gold, Varuna's envoy, the Bird that hasteth to the home of Yama. 67 O Indra, bring us wisdom as a sire gives wisdom to his sons. Guide us, O much-invoked in this our way: may we still living look upon the Sun. 68 Let these which Gods have held for thee, the beakers covered o'er with cake, Be full of sacred food for thee, distilling fatness, rich in mead. p. 198 69 Grains which for thee I scatter, mixt with Sesamum, as holy food, May they for thee be excellent and potent: King Yama look on them as thine with favour! 70 O Tree, give back again this man who is deposited on thee. That he may dwell in Yama's home addressing the assemblies there. 71 Seize hold O Jātavedas; let thy flame be full of fervent heat. Consume his body: to the world of pious ones transport this man. 72 To these, thy Fathers who have passed away at first and after- ward, Let the full brook of butter run, o'erflowing with a hundred streams. 73 Mount to this life, removing all defilement: here thine own kindred shine with lofty splendour. Depart thou; be not left behind: go forward, first of those here, unto the world of Fathers. p. 199 p. 200