Skip to content

Mitakshara 2.294

इति । तत्र प्रथमे वर्षे कृत्स्नम् एव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं, चतुर्थादिषु षठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थो ऽंशो ऽधिगन्त्रे दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थम् अंशम् अधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् । तथाह गौतमः "प्रनष्टस्वामिकम् अधिगम्य संवत्सरं राज्ञा रक्ष्यम्, ऊर्ध्वम् अधिगन्तुश् चतुर्थो ऽंशो राज्ञः शेषम्" इति । अत्र संवत्सरम् इत्य् एकवचनम् अविवक्षितम्, "राजा त्र्यब्दं निधापयेत्" इति स्मरणात् । "हरेत परतो नृपः" इत्य् एतद् अपि स्वामिन्य् अनागते त्र्यब्दाद् ऊर्ध्वं व्ययीकरणाभ्यनुज्ञापरम् । ततः परम् आगते तु स्वामिनि व्ययीभूते ऽपि द्रव्ये राजा स्वांशम् अवतार्य तत्समं दद्यात् । एतच् च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति: "पणान् एकशफे दद्यात्" इत्यादिना ॥ २.३३ ॥

iti | tatra prathame varṣe kṛtsnam eva dadyāt, dvitīye dvādaśaṃ bhāgaṃ, tṛtīye daśamaṃ, caturthādiṣu ṣaṭhaṃ bhāgaṃ gṛhītvā śeṣaṃ dadyāt | rājabhāgasya caturtho 'ṃśo 'dhigantre dātavyaḥ | svāmyanāgame tu kṛtsnasya dhanasya caturtham aṃśam adhigantre dattvā śeṣaṃ rājā gṛhṇīyāt | tathāha gautamaḥ "pranaṣṭasvāmikam adhigamya saṃvatsaraṃ rājñā rakṣyam, ūrdhvam adhigantuś caturtho 'ṃśo rājñaḥ śeṣam" iti | atra saṃvatsaram ity ekavacanam avivakṣitam, "rājā tryabdaṃ nidhāpayet" iti smaraṇāt | "hareta parato nṛpaḥ" ity etad api svāminy anāgate tryabdād ūrdhvaṃ vyayīkaraṇābhyanujñāparam | tataḥ param āgate tu svāmini vyayībhūte 'pi dravye rājā svāṃśam avatārya tatsamaṃ dadyāt | etac ca hiraṇyādiviṣayam | gavādiviṣaye vakṣyati: "paṇān ekaśaphe dadyāt" ityādinā || 2.33 ||

Report an error