शक्तीनां चित्रवर्णादिलक्षणं वक्ष्यतेऽधुना । सरस्वती च सावित्री लक्ष्मीश्च मही तथा ॥ १ ॥
śaktīnāṃ citravarṇādilakṣaṇaṃ vakṣyate'dhunā | sarasvatī ca sāvitrī lakṣmīśca mahī tathā || 1 ||
अध्यायः ५२ · शक्तिलक्षणम्
śaktilakṣaṇam
A chapter of the Manasara.
93 versesSanskrit with transliteration
शक्तीनां चित्रवर्णादिलक्षणं वक्ष्यतेऽधुना । सरस्वती च सावित्री लक्ष्मीश्च मही तथा ॥ १ ॥
śaktīnāṃ citravarṇādilakṣaṇaṃ vakṣyate'dhunā | sarasvatī ca sāvitrī lakṣmīśca mahī tathā || 1 ||
मनोन्मनी सप्तमातृश्च दुर्गा चैव यथाक्रमम् । पूर्वोक्तद्र व्यसर्वेषां सर्वशक्ति प्रकारयेत् ॥ २ ॥
manonmanī saptamātṛśca durgā caiva yathākramam | pūrvoktadra vyasarveṣāṃ sarvaśakti prakārayet || 2 ||
पद्मपीठोपरि स्थाप्य देवीं पद्मासनासनाम् । शुद्धस्फटिकसंकाशं मुक्ताभरणभूषणम् ॥ ३ ॥
padmapīṭhopari sthāpya devīṃ padmāsanāsanām | śuddhasphaṭikasaṃkāśaṃ muktābharaṇabhūṣaṇam || 3 ||
चतुर्बहुं द्विनेत्रं च केशबन्धं च मौलिनीम् । शुद्धश्वेताङ्गुलोपेतां ग्राहकुण्डलभूषणाम् ॥ ४ ॥
caturbahuṃ dvinetraṃ ca keśabandhaṃ ca maulinīm | śuddhaśvetāṅgulopetāṃ grāhakuṇḍalabhūṣaṇām || 4 ||
ललाटे भ्रमरकं स्यान्मौक्तिकापट्टमेव वा । कर्णपुष्पैश्च मौक्त्येन कर्णदामैरलङ्कृतम् ॥ ५ ॥
lalāṭe bhramarakaṃ syānmauktikāpaṭṭameva vā | karṇapuṣpaiśca mauktyena karṇadāmairalaṅkṛtam || 5 ||
हारोपग्रीवसंयुक्तं मुक्तारत्नावली तथा । कुचबन्धनसंयुक्ता बाहुमालाविभूषणी ॥ ६ ॥
hāropagrīvasaṃyuktaṃ muktāratnāvalī tathā | kucabandhanasaṃyuktā bāhumālāvibhūṣaṇī || 6 ||
केयूरकटकैर्युक्तं प्रकोष्ठवलयं तथा । मणिबन्धकटकं वा मौक्तिका पौरमेव च ॥ ७ ॥
keyūrakaṭakairyuktaṃ prakoṣṭhavalayaṃ tathā | maṇibandhakaṭakaṃ vā mauktikā paurameva ca || 7 ||
मध्याङ्गुलं विना सर्वे मौलिक रत्नाङ्गुलीयकैः । नीवीं च लम्बनं चैव मौक्तिका पट्टयुक्तिका ॥ ८ ॥
madhyāṅgulaṃ vinā sarve maulika ratnāṅgulīyakaiḥ | nīvīṃ ca lambanaṃ caiva mauktikā paṭṭayuktikā || 8 ||
पादजालां भुजङ्गानां गुल्फस्योपरि भूषणीम् । पादनूपुरसंयुक्तं पादरत्नाङ्गुलीयकैः ॥ ९ ॥
pādajālāṃ bhujaṅgānāṃ gulphasyopari bhūṣaṇīm | pādanūpurasaṃyuktaṃ pādaratnāṅgulīyakaiḥ || 9 ||
मौक्तिकोत्तरीयसंयुक्तां सर्वालङ्करभूषणम् । पुरतः सव्य संदर्शं पुस्तकं वामहस्तके ॥ १० ॥
mauktikottarīyasaṃyuktāṃ sarvālaṅkarabhūṣaṇam | purataḥ savya saṃdarśaṃ pustakaṃ vāmahastake || 10 ||
दक्षिणे परहस्ते तु चाक्षमालावधारिणीम् । कुण्डिका वामहस्तौ च धारयेत्तु सरस्वती ॥ ११ ॥
dakṣiṇe parahaste tu cākṣamālāvadhāriṇīm | kuṇḍikā vāmahastau ca dhārayettu sarasvatī || 11 ||
अथवा द्विभुजं कुर्यात्कुन्तलं मकुटं भवेत् । दक्षिणं वरदं हस्तं वामहस्ते च पद्मकम् ॥ १२ ॥
athavā dvibhujaṃ kuryātkuntalaṃ makuṭaṃ bhavet | dakṣiṇaṃ varadaṃ hastaṃ vāmahaste ca padmakam || 12 ||
करण्डमकुटं वापि हेमवर्णाङ्गशोभितम् । पीताम्बरं यथारत्नं मुक्ताभरणमेव च ॥ १३ ॥
karaṇḍamakuṭaṃ vāpi hemavarṇāṅgaśobhitam | pītāmbaraṃ yathāratnaṃ muktābharaṇameva ca || 13 ||
कर्णयोः स्वर्णताटङ्कं सूत्रयुक्तं सुमङ्गलाम् । द्विनेत्रीं प्रसन्नवदनां सर्वाभरणभूषणीम् ॥ १४ ॥
karṇayoḥ svarṇatāṭaṅkaṃ sūtrayuktaṃ sumaṅgalām | dvinetrīṃ prasannavadanāṃ sarvābharaṇabhūṣaṇīm || 14 ||
पितामहस्य पार्श्वे तु स्थानकं चासनं तु वा । वामभागे तु सावित्रीं श्वेतरक्तमथापि वा ॥ १५ ॥
pitāmahasya pārśve tu sthānakaṃ cāsanaṃ tu vā | vāmabhāge tu sāvitrīṃ śvetaraktamathāpi vā || 15 ||
श्यामाङ्गवर्णमेवं वा द्विभुजं च द्विनेत्रकम् । स्थानकं चासनं वापि करण्डमकुटान्वितम् ॥ १६ ॥
śyāmāṅgavarṇamevaṃ vā dvibhujaṃ ca dvinetrakam | sthānakaṃ cāsanaṃ vāpi karaṇḍamakuṭānvitam || 16 ||
अथवा केशबन्धं वा कर्णे मकरकुण्डलम् । दुकूलाम्बरधरं वापि पीताम्बरमथापि वा ॥ १७ ॥
athavā keśabandhaṃ vā karṇe makarakuṇḍalam | dukūlāmbaradharaṃ vāpi pītāmbaramathāpi vā || 17 ||
सर्वाभरणसंयुक्तां वरदं वामहस्तके । दक्षिणे चोत्पलं कुर्याच्छेषं प्रागुक्तवन्नयेत् ॥ १८ ॥
sarvābharaṇasaṃyuktāṃ varadaṃ vāmahastake | dakṣiṇe cotpalaṃ kuryāccheṣaṃ prāguktavannayet || 18 ||
सरस्वतीं च सावित्रीं दशतालेन कारयेत् । रक्ताब्जं पीठतश्चोर्ध्वे देवी पद्मासना भवेत् ॥ १९ ॥
sarasvatīṃ ca sāvitrīṃ daśatālena kārayet | raktābjaṃ pīṭhataścordhve devī padmāsanā bhavet || 19 ||
चतुर्भुजं त्रिनेत्रं च मकुटं कुन्तलं भवेत् । प्रसन्नवदनां देवीं शुद्धकाञ्चनसन्निभाम् ॥ २० ॥
caturbhujaṃ trinetraṃ ca makuṭaṃ kuntalaṃ bhavet | prasannavadanāṃ devīṃ śuddhakāñcanasannibhām || 20 ||
पीताम्बरधरां रक्तां शुकपोताम् । विशालाक्षमायतं कुर्यादपाङ्गकोणे स्मिताननाम् ॥ २१ ॥
pītāmbaradharāṃ raktāṃ śukapotām | viśālākṣamāyataṃ kuryādapāṅgakoṇe smitānanām || 21 ||
दक्षिणे त्वभयं पूर्वे डिण्डिमं वामहस्तके । अपरे दक्षिणे पद्मं चाक्षमालामथापि वा ॥ २२ ॥
dakṣiṇe tvabhayaṃ pūrve ḍiṇḍimaṃ vāmahastake | apare dakṣiṇe padmaṃ cākṣamālāmathāpi vā || 22 ||
वामे नीलोत्पलं वापि रक्तपद्मोद्धृतं तु वा । पीनोन्नतस्तनतटां फाले भ्रमरकान्विताम् ॥ २३ ॥
vāme nīlotpalaṃ vāpi raktapadmoddhṛtaṃ tu vā | pīnonnatastanataṭāṃ phāle bhramarakānvitām || 23 ||
अथवा रत्नपट्टं स्यात्स्वर्णताटङ्कं कर्णयोः । मकरं कुण्डलं वापि कर्णयोः स्वर्णदामयुक् ॥ २४ ॥
athavā ratnapaṭṭaṃ syātsvarṇatāṭaṅkaṃ karṇayoḥ | makaraṃ kuṇḍalaṃ vāpi karṇayoḥ svarṇadāmayuk || 24 ||
हारोपग्रीवसंयुक्तां ससूत्रैश्च सुमङ्गलीम् । कुचतटैश्च केकैश्च हेमपट्टविभूषिणीम् ॥ २५ ॥
hāropagrīvasaṃyuktāṃ sasūtraiśca sumaṅgalīm | kucataṭaiśca kekaiśca hemapaṭṭavibhūṣiṇīm || 25 ||
रत्नानि चन्द्र बीरं स्यात्स्वर्णरत्नोत्तरीययुक् । वुष्णीषात् पादपर्यंतं हारांतर शतांशकम् । उष्णीषं तु चतुर्मात्रं नेत्रांतं तु युगांगुलं । पुटांतं वेदमात्रं स्यात् मात्राणा मेढ्राग्रं तु सीमकं । तत्समं भागानुभागं स्यात् मूरुदीर्घ मुखद्वयं । जानुकंठ समा कुर्यात् जंघा च चोरुतुल्यकं । पादजानु समोच्चं स्यात् देवमुक्तंगमानयेत् । अंगुष्ठात् पार्ष्णिपर्यंतं तलंशो उशमात्रकं । चतुर्विंशतिमात्रं स्यात् --सीमकं-- स्यते । कूर्परं च द्विमात्रं स्यात् प्रकोष्ठमष्टादशांगुलं । मध्याङ्गुलाग्रसीमांतं तलं द्वादशमात्रकं । रुद्रा शं! मुखतारम् स्यात् गलतारं युगद्वयं । वत्समं बाहुमूलं स्यात् जानुविस्तारं तत्समं । बाहुपर्यंतविस्तारं षड्त्रिंशाङ्गुलं तथा । कुक्षियोरंतरं वापि विंशमात्रं प्रशस्यते । मध्योदरतारं च पंचादशांगुलं भवेत् । श्रोणिदेशविशालं स्यात् सप्तादशाङ्गुलं भवेत् । नवाधिक्यं दशाङ्गुल्यं कटिदेशे विशालकं । ऊरुमूलविशालं स्यात् द्वादशांगुलमिष्यते । वृरुमध्ये विशालं तु सार्द्धपंक्त्यंगुलं भवेत् । जंघामूलविशालं तु सार्धसप्तांगुलं तथा । जिह्वामध्य षडंगुल्यं विस्तारं तु युगांगुलं । नलकां गुल्फविस्तारं सत्रिपादाब्धिमात्रकं । सार्धवेदाङ्गुलं पार्ष्णिविस्तारं परिकीर्त्तितं । षड्यवाधिकपंचांशं प्रपादं विस्तारं भवेत् । तलाग्रातारं शरांगुल्यां वेदांशांगुष्ठदीर्घकं । द्विमात्रं तस्य विस्तारं तारार्धमं नखविस्तृतं । तर्जन्यंगुष्ठ तत्तुल्यं दीर्घं विस्तारमंशकं । त्रयंगुल्यं सार्धपक्षांशं मध्यंगुल्यं च त्रये पादै । मध्यमादि कनिष्ठांतं दीर्घमेव प्रसस्यते । विस्तारं सप्तषट्पंच यवमानमुदीरितम् । तदर्धं च तदर्धं च नखविस्तारमुच्यते । बाहुमध्यविशाले तु सप्तांशं कूर्परं तथा । वेदांगुल्यं प्रकोष्ठं च मणिवंध त्र्! ययंशकं । त्रियंशं सार्द्धं पक्षांशं षडंशं तलमूलां चा । तलाग्रांतर गुगांगुलं । तलदीर्घ षडंगुल्यं शेषांशं मध्यमांगुलं । सार्द्धपंचांगुलं दीर्घं तर्जन्यनामिकाद्वयो । सार्धपंक्त्यंगुलां दीर्घं कनिष्ठये तत्मथापि वा । अंशं षड्यवं सप्तषड्यवं चतुर्यवं क्रमात् । अंगुष्ठादि कनिष्ठांतं विस्तारं परिकीर्त्तितं । स्थूलमूलं कृशाग्रं तु दुक्तमानेन योज्ययेत् । अग्रे त्रिद्विभागेन नखतारं प्रशस्यते । तच्चतुर्भागमाधिक्यं नखतायामुदाहृतं । एकद्वित्रियवं वापि नखाग्रं कारयेत् सुधो । अंगुष्ठेव च द्विपर्व स्यात् त्रिपंचांचांन्यदंगुलैः । ज्ञानरेखादि रेखैश्च कुर्यात्तुतलमध्यमे । केशांता दक्षिणे सूत्रांतं भूवोर्मध्येभूवस्थिति । अक्षायामद्वयंगुलं तदर्धं तस्य विस्त्रितं । भूवायाम युगांगुल्यं द्वयविस्तार भागिकं । त्र्! यंगुलं पुटपर्यंतं नासिका विस्त्रितं भवेत् । तदर्धं मध्यविस्तारं तदर्धं स्यात् तदमांगुलं । केयूरकटकस्वर्णरत्नपूरिमसंयुतम् ॥ २६ ॥
ratnāni candra bīraṃ syātsvarṇaratnottarīyayuk | vuṣṇīṣāt pādaparyaṃtaṃ hārāṃtara śatāṃśakam | uṣṇīṣaṃ tu caturmātraṃ netrāṃtaṃ tu yugāṃgulaṃ | puṭāṃtaṃ vedamātraṃ syāt mātrāṇā meḍhrāgraṃ tu sīmakaṃ | tatsamaṃ bhāgānubhāgaṃ syāt mūrudīrgha mukhadvayaṃ | jānukaṃṭha samā kuryāt jaṃghā ca corutulyakaṃ | pādajānu samoccaṃ syāt devamuktaṃgamānayet | aṃguṣṭhāt pārṣṇiparyaṃtaṃ talaṃśo uśamātrakaṃ | caturviṃśatimātraṃ syāt --sīmakaṃ-- syate | kūrparaṃ ca dvimātraṃ syāt prakoṣṭhamaṣṭādaśāṃgulaṃ | madhyāṅgulāgrasīmāṃtaṃ talaṃ dvādaśamātrakaṃ | rudrā śaṃ! mukhatāram syāt galatāraṃ yugadvayaṃ | vatsamaṃ bāhumūlaṃ syāt jānuvistāraṃ tatsamaṃ | bāhuparyaṃtavistāraṃ ṣaḍtriṃśāṅgulaṃ tathā | kukṣiyoraṃtaraṃ vāpi viṃśamātraṃ praśasyate | madhyodaratāraṃ ca paṃcādaśāṃgulaṃ bhavet | śroṇideśaviśālaṃ syāt saptādaśāṅgulaṃ bhavet | navādhikyaṃ daśāṅgulyaṃ kaṭideśe viśālakaṃ | ūrumūlaviśālaṃ syāt dvādaśāṃgulamiṣyate | vṛrumadhye viśālaṃ tu sārddhapaṃktyaṃgulaṃ bhavet | jaṃghāmūlaviśālaṃ tu sārdhasaptāṃgulaṃ tathā | jihvāmadhya ṣaḍaṃgulyaṃ vistāraṃ tu yugāṃgulaṃ | nalakāṃ gulphavistāraṃ satripādābdhimātrakaṃ | sārdhavedāṅgulaṃ pārṣṇivistāraṃ parikīrttitaṃ | ṣaḍyavādhikapaṃcāṃśaṃ prapādaṃ vistāraṃ bhavet | talāgrātāraṃ śarāṃgulyāṃ vedāṃśāṃguṣṭhadīrghakaṃ | dvimātraṃ tasya vistāraṃ tārārdhamaṃ nakhavistṛtaṃ | tarjanyaṃguṣṭha tattulyaṃ dīrghaṃ vistāramaṃśakaṃ | trayaṃgulyaṃ sārdhapakṣāṃśaṃ madhyaṃgulyaṃ ca traye pādai | madhyamādi kaniṣṭhāṃtaṃ dīrghameva prasasyate | vistāraṃ saptaṣaṭpaṃca yavamānamudīritam | tadardhaṃ ca tadardhaṃ ca nakhavistāramucyate | bāhumadhyaviśāle tu saptāṃśaṃ kūrparaṃ tathā | vedāṃgulyaṃ prakoṣṭhaṃ ca maṇivaṃdha tr! yayaṃśakaṃ | triyaṃśaṃ sārddhaṃ pakṣāṃśaṃ ṣaḍaṃśaṃ talamūlāṃ cā | talāgrāṃtara gugāṃgulaṃ | taladīrgha ṣaḍaṃgulyaṃ śeṣāṃśaṃ madhyamāṃgulaṃ | sārddhapaṃcāṃgulaṃ dīrghaṃ tarjanyanāmikādvayo | sārdhapaṃktyaṃgulāṃ dīrghaṃ kaniṣṭhaye tatmathāpi vā | aṃśaṃ ṣaḍyavaṃ saptaṣaḍyavaṃ caturyavaṃ kramāt | aṃguṣṭhādi kaniṣṭhāṃtaṃ vistāraṃ parikīrttitaṃ | sthūlamūlaṃ kṛśāgraṃ tu duktamānena yojyayet | agre tridvibhāgena nakhatāraṃ praśasyate | taccaturbhāgamādhikyaṃ nakhatāyāmudāhṛtaṃ | ekadvitriyavaṃ vāpi nakhāgraṃ kārayet sudho | aṃguṣṭheva ca dviparva syāt tripaṃcāṃcāṃnyadaṃgulaiḥ | jñānarekhādi rekhaiśca kuryāttutalamadhyame | keśāṃtā dakṣiṇe sūtrāṃtaṃ bhūvormadhyebhūvasthiti | akṣāyāmadvayaṃgulaṃ tadardhaṃ tasya vistritaṃ | bhūvāyāma yugāṃgulyaṃ dvayavistāra bhāgikaṃ | tr! yaṃgulaṃ puṭaparyaṃtaṃ nāsikā vistritaṃ bhavet | tadardhaṃ madhyavistāraṃ tadardhaṃ syāt tadamāṃgulaṃ | keyūrakaṭakasvarṇaratnapūrimasaṃyutam || 26 ||
प्रकोष्ठवलयं रत्नैः कटकं मणिबन्धकैः । रत्नेन कटिसूत्रं स्याद्र त्नदामादिभूषिणीम् ॥ २७ ॥
prakoṣṭhavalayaṃ ratnaiḥ kaṭakaṃ maṇibandhakaiḥ | ratnena kaṭisūtraṃ syādra tnadāmādibhūṣiṇīm || 27 ||
रत्नहेमं च वस्त्रेण कुर्यान्नीव्यं च लम्बयेत् । नलकान्तं स्त्रिलम्बं स्यात्सर्वरत्नानि शोभिताम् ॥ २८ ॥
ratnahemaṃ ca vastreṇa kuryānnīvyaṃ ca lambayet | nalakāntaṃ strilambaṃ syātsarvaratnāni śobhitām || 28 ||
भुजङ्गाङ्गवलयं पादौ चोर्ध्वाधो रत्नबन्धनम् । पादनूपुरसंयुक्ताङ्गुलीरत्नाङ्गुलीयकम् ॥ २९ ॥
bhujaṅgāṅgavalayaṃ pādau cordhvādho ratnabandhanam | pādanūpurasaṃyuktāṅgulīratnāṅgulīyakam || 29 ||
बाहुमूलादि संभूष्य सर्वाभरणभूषिणीम् । अथवा द्विभुजं चैव वामहस्ते च सन्धिमत् ॥ ३० ॥
bāhumūlādi saṃbhūṣya sarvābharaṇabhūṣiṇīm | athavā dvibhujaṃ caiva vāmahaste ca sandhimat || 30 ||
दक्षिणे रत्नपद्मं स्याच्छेषं प्रागुक्तवन्नयेत् । एवं प्रोक्तं महालक्ष्मीं स्थापयेत्सर्वहर्म्यके ॥ ३१ ॥
dakṣiṇe ratnapadmaṃ syāccheṣaṃ prāguktavannayet | evaṃ proktaṃ mahālakṣmīṃ sthāpayetsarvaharmyake || 31 ||
सामान्यं लक्ष्मीं कुर्याद् द्विभुजं च द्विनेत्रके । रक्तपद्मोद्धृतं हस्तौ सर्वाभरणभूषिणीम् ॥ ३२ ॥
sāmānyaṃ lakṣmīṃ kuryād dvibhujaṃ ca dvinetrake | raktapadmoddhṛtaṃ hastau sarvābharaṇabhūṣiṇīm || 32 ||
शेषं तु पूर्ववत्कुर्याद् देवीं पार्श्वे विशेषतः । ऐरावतद्वयोश्चैव कुर्यादारादयेत्सुधीः ॥ ३३ ॥
śeṣaṃ tu pūrvavatkuryād devīṃ pārśve viśeṣataḥ | airāvatadvayoścaiva kuryādārādayetsudhīḥ || 33 ||
सर्वासमालये द्वारे मध्यरङ्गे तु पूजयेत् । अथवा विष्णुपार्श्वे तु लक्ष्मीलक्षणमुच्यते ॥ ३४ ॥
sarvāsamālaye dvāre madhyaraṅge tu pūjayet | athavā viṣṇupārśve tu lakṣmīlakṣaṇamucyate || 34 ||
द्विभुजां च द्विनेत्रां च करण्डमकुटान्विताम् । अथवा केशबन्धं स्याद्वामहस्तोद्धृताब्जकम् ॥ ३५ ॥
dvibhujāṃ ca dvinetrāṃ ca karaṇḍamakuṭānvitām | athavā keśabandhaṃ syādvāmahastoddhṛtābjakam || 35 ||
दक्षिणं हस्तं वरदं च अथवा लम्बनं भवेत् । स्थानकं चासनं वापि स्थापयेद् विष्णुदक्षिणे ॥ ३६ ॥
dakṣiṇaṃ hastaṃ varadaṃ ca athavā lambanaṃ bhavet | sthānakaṃ cāsanaṃ vāpi sthāpayed viṣṇudakṣiṇe || 36 ||
कुर्यात्तु सर्वलक्ष्मीनां मध्यमं दशतालके । सर्वाभरणसंयुक्तां हेमवर्णाङ्गशोभिताम् ॥ ३७ ॥
kuryāttu sarvalakṣmīnāṃ madhyamaṃ daśatālake | sarvābharaṇasaṃyuktāṃ hemavarṇāṅgaśobhitām || 37 ||
एतेषाम् इन्दिराः प्रोक्ताः महिशक्तिमिहोच्यते । द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ॥ ३८ ॥
eteṣām indirāḥ proktāḥ mahiśaktimihocyate | dvibhujaṃ ca dvinetraṃ ca karaṇḍamakuṭānvitam || 38 ||
दुकूलवसनोपेतां मकुटं कुन्तलं तु वा । स्थानकं चासनं वापि विष्णुमूर्त्यापसव्यके ॥ ३९ ॥
dukūlavasanopetāṃ makuṭaṃ kuntalaṃ tu vā | sthānakaṃ cāsanaṃ vāpi viṣṇumūrtyāpasavyake || 39 ||
दक्षिणे चोत्पलं धृत्वा वामभागं तु लम्बनम् । अथवा वरदं वामे श्यामवर्णाङ्गशोभिताम् ॥ ४० ॥
dakṣiṇe cotpalaṃ dhṛtvā vāmabhāgaṃ tu lambanam | athavā varadaṃ vāme śyāmavarṇāṅgaśobhitām || 40 ||
मानयेद् दशतालेन सर्वं शेषं तु पूर्ववत् । मकरकुण्डलसंयुक्तां सर्वाभरणभूषिणीम् ॥ ४१ ॥
mānayed daśatālena sarvaṃ śeṣaṃ tu pūrvavat | makarakuṇḍalasaṃyuktāṃ sarvābharaṇabhūṣiṇīm || 41 ||
भूशक्तिलक्षणं प्रोक्तं गौरीलक्षणमुच्यते । द्विभुजं च द्विनेत्रं च कुर्यादासनं स्थानकं तु वा ॥ ४२ ॥
bhūśaktilakṣaṇaṃ proktaṃ gaurīlakṣaṇamucyate | dvibhujaṃ ca dvinetraṃ ca kuryādāsanaṃ sthānakaṃ tu vā || 42 ||
करण्डं केशबन्धं वा कुन्तलं मकुटं भवेत् । दक्षिणे चोत्पलं वामे वरदं स्थानमेव वा ॥ ४३ ॥
karaṇḍaṃ keśabandhaṃ vā kuntalaṃ makuṭaṃ bhavet | dakṣiṇe cotpalaṃ vāme varadaṃ sthānameva vā || 43 ||
अथवा लम्बहस्तं स्याद्गोबालाकारवद् भवेत् । दुकूलवसनोपेतां पीताम्बरधरामेव वा ॥ ४४ ॥
athavā lambahastaṃ syādgobālākāravad bhavet | dukūlavasanopetāṃ pītāmbaradharāmeva vā || 44 ||
दीर्घबाहुं विशालक्षीं श्यामवर्णां महोदराम् । स्तनतटोतुङ्ग विस्तीर्णश्रोनि देशोद्भवा भवेत् ॥ ४५ ॥
dīrghabāhuṃ viśālakṣīṃ śyāmavarṇāṃ mahodarām | stanataṭotuṅga vistīrṇaśroni deśodbhavā bhavet || 45 ||
कटि चोरु विशालं स्यान्मध्यकञ्चीनलम्बवत् । विशालास्य सुग्रीवं तुङ्गतुण्डं स्मिताननम् ॥ ४६ ॥
kaṭi coru viśālaṃ syānmadhyakañcīnalambavat | viśālāsya sugrīvaṃ tuṅgatuṇḍaṃ smitānanam || 46 ||
चन्द्र रेखावतंसं स्याद् भ्रमरावृतमालिकम् । अथवा फालपट्टं स्यात्कर्णयोर्ग्राहकुण्डली ॥ ४७ ॥
candra rekhāvataṃsaṃ syād bhramarāvṛtamālikam | athavā phālapaṭṭaṃ syātkarṇayorgrāhakuṇḍalī || 47 ||
कर्णपुष्पैश्च दामं स्याद्धेमसूत्रं सुमङ्गली । हारोपग्रीवसंयुक्तां बाहुमालाविभूषिणीम् ॥ ४८ ॥
karṇapuṣpaiśca dāmaṃ syāddhemasūtraṃ sumaṅgalī | hāropagrīvasaṃyuktāṃ bāhumālāvibhūṣiṇīm || 48 ||
कटकं कटिसूत्रं स्यात्केयूरपुरिमान्वितम् । रक्तांशुकोत्तरीयं स्यान्मौक्तिकोत्तरीयमेव च ॥ ४९ ॥
kaṭakaṃ kaṭisūtraṃ syātkeyūrapurimānvitam | raktāṃśukottarīyaṃ syānmauktikottarīyameva ca || 49 ||
प्रकोष्ठवलयं चैव वलयैर्मणिबन्धकैः । भुजङ्गकटकाङ्घ्रिकौ पादनूपुरसंयुतम् ॥ ५० ॥
prakoṣṭhavalayaṃ caiva valayairmaṇibandhakaiḥ | bhujaṅgakaṭakāṅghrikau pādanūpurasaṃyutam || 50 ||
सर्वाङ्गुलोक्तवज्ज्ञात्वा कुर्याद्र क्ताङ्गुलीयकैः । दक्षिणे कुञ्चितं पादम् वामपादं तु लम्बितम् ॥ ५१ ॥
sarvāṅguloktavajjñātvā kuryādra ktāṅgulīyakaiḥ | dakṣiṇe kuñcitaṃ pādam vāmapādaṃ tu lambitam || 51 ||
पुष्पं च वरदं स्थाने हस्तं वामेऽथ चासने । दक्षिणं स्वस्तिकं पादं वामादन्तकरान्तकम् ॥ ५२ ॥
puṣpaṃ ca varadaṃ sthāne hastaṃ vāme'tha cāsane | dakṣiṇaṃ svastikaṃ pādaṃ vāmādantakarāntakam || 52 ||
कुञ्चितं वामपादं स्याद् दक्षिणं कुञ्चितं तु वा । पुष्पधृक् लम्बहस्तं स्यात्स्थानकं च त्रिभागिकम् ॥ ५३ ॥
kuñcitaṃ vāmapādaṃ syād dakṣiṇaṃ kuñcitaṃ tu vā | puṣpadhṛk lambahastaṃ syātsthānakaṃ ca tribhāgikam || 53 ||
मानयेदङ्गमानं च मध्यमं दशतालके । लिङ्गस्य वामपार्श्वे तु विग्रहाणां तु वामके ॥ ५४ ॥
mānayedaṅgamānaṃ ca madhyamaṃ daśatālake | liṅgasya vāmapārśve tu vigrahāṇāṃ tu vāmake || 54 ||
स्थापयेत्स्थावरे गौरीं तथा जङ्गममेव च । गौरीं च पार्वतीं चैव मनोमन्यामथ वक्ष्यते ॥ ५५ ॥
sthāpayetsthāvare gaurīṃ tathā jaṅgamameva ca | gaurīṃ ca pārvatīṃ caiva manomanyāmatha vakṣyate || 55 ||
चतुर्भुजां त्रिनेत्रां च जटामकुटमण्डिताम् । समपदस्थानकं देवीं दशतालेन मानयेत् ॥ ५६ ॥
caturbhujāṃ trinetrāṃ ca jaṭāmakuṭamaṇḍitām | samapadasthānakaṃ devīṃ daśatālena mānayet || 56 ||
दक्षिणे चाभयं पूर्वे वरदं वामहस्तके । अपरे दक्षिणे चाब्जं वामहस्ते तु चोत्पलम् ॥ ५७ ॥
dakṣiṇe cābhayaṃ pūrve varadaṃ vāmahastake | apare dakṣiṇe cābjaṃ vāmahaste tu cotpalam || 57 ||
श्वेतरक्तं च वर्णं वा श्यामवर्णाङ्गशोभितम् । केचित्तु कुन्तलनिभं तुङ्गं मकुटं कुन्तलं तु वा ॥ ५८ ॥
śvetaraktaṃ ca varṇaṃ vā śyāmavarṇāṅgaśobhitam | kecittu kuntalanibhaṃ tuṅgaṃ makuṭaṃ kuntalaṃ tu vā || 58 ||
वामे बालशशिं कुर्यादवामे तुरगान्वितम् । दुकूलवसनोपेतं सर्वाभरणभूषितम् ॥ ५९ ॥
vāme bālaśaśiṃ kuryādavāme turagānvitam | dukūlavasanopetaṃ sarvābharaṇabhūṣitam || 59 ||
तदेव वृषमाश्रित्य पृष्ठे देवी त्रिभागिकम् । दक्षिणं स्वस्तिकं पादं वामपादं च कुञ्चितम् ॥ ६० ॥
tadeva vṛṣamāśritya pṛṣṭhe devī tribhāgikam | dakṣiṇaṃ svastikaṃ pādaṃ vāmapādaṃ ca kuñcitam || 60 ||
पुरतो वामहस्ताक्षं शिरस्योपरि विन्यसेत् । शेषं तु पूर्वदेवीं च चोत्पलं वासनाभयम् ॥ ६१ ॥
purato vāmahastākṣaṃ śirasyopari vinyaset | śeṣaṃ tu pūrvadevīṃ ca cotpalaṃ vāsanābhayam || 61 ||
तदेव परहस्तौ च वामे रक्ताब्जधारिणीम् । दक्षिणे चाक्षमाला च कुर्यात्प्रोक्तं पुरातनैः ॥ ६२ ॥
tadeva parahastau ca vāme raktābjadhāriṇīm | dakṣiṇe cākṣamālā ca kuryātproktaṃ purātanaiḥ || 62 ||
एवं मनोन्मनीं शक्त्या स्थापयेच्छिवहर्म्यके । वाराही चैव कौमारी चामुण्डी भैरवीं तथा ॥ ६३ ॥
evaṃ manonmanīṃ śaktyā sthāpayecchivaharmyake | vārāhī caiva kaumārī cāmuṇḍī bhairavīṃ tathā || 63 ||
माहेन्द्री वैष्णवी चैव ब्रह्माणी सप्तमातरः । एतेषां सर्वशक्तीनां नवतालेन कारयेत् ॥ ६४ ॥
māhendrī vaiṣṇavī caiva brahmāṇī saptamātaraḥ | eteṣāṃ sarvaśaktīnāṃ navatālena kārayet || 64 ||
भद्र पीठोपरि स्थाप्यमासने सप्तमातरः । शयने दक्षिणे पादान् वामपादान्प्रलम्बयेत् ॥ ६५ ॥
bhadra pīṭhopari sthāpyamāsane saptamātaraḥ | śayane dakṣiṇe pādān vāmapādānpralambayet || 65 ||
चतुर्भुजं त्रिनेत्रैश्च सर्वाभरणभूषिणीम् । चामुण्डी चैव रुद्रा णी तानि शक्तिः त्रिलोचनी ॥ ६६ ॥
caturbhujaṃ trinetraiśca sarvābharaṇabhūṣiṇīm | cāmuṇḍī caiva rudrā ṇī tāni śaktiḥ trilocanī || 66 ||
ब्रह्माणी चैव रुद्रा णी जटामकुटमण्डितौ । वाराहीपोत्रवक्त्री स्यात् किरीटमकुटान्वितम् ॥ ६७ ॥
brahmāṇī caiva rudrā ṇī jaṭāmakuṭamaṇḍitau | vārāhīpotravaktrī syāt kirīṭamakuṭānvitam || 67 ||
कौमारी करण्डमौली च किरीटी वैष्णवी तथा । चामुण्डी ज्वालमौली च भैरवी पिबरालका ॥ ६८ ॥
kaumārī karaṇḍamaulī ca kirīṭī vaiṣṇavī tathā | cāmuṇḍī jvālamaulī ca bhairavī pibarālakā || 68 ||
शूलं मरुगणं चैव पूर्वं चापरदक्षिणे । कपालं पूर्वहस्ते च पाशं चापरहस्तकौ ॥ ६९ ॥
śūlaṃ marugaṇaṃ caiva pūrvaṃ cāparadakṣiṇe | kapālaṃ pūrvahaste ca pāśaṃ cāparahastakau || 69 ||
एवं तु वानमुद्धृत्य चामुण्डी भैरवी उभौ । चामुण्डी श्यामवर्णाभा भैरवी रक्तवर्णिनी ॥ ७० ॥
evaṃ tu vānamuddhṛtya cāmuṇḍī bhairavī ubhau | cāmuṇḍī śyāmavarṇābhā bhairavī raktavarṇinī || 70 ||
केचित्तु भैरवी पूर्वे वरदाभयहस्तकौ । शूलं डमरुकं चैव सव्यवामकेऽपरे ॥ ७१ ॥
kecittu bhairavī pūrve varadābhayahastakau | śūlaṃ ḍamarukaṃ caiva savyavāmake'pare || 71 ||
रक्ताम्बरपरा पार्श्वे कुचाभौ रक्तकञ्चुलौ । चामुण्डी च शिरोमाला सर्वाभरणभूषिणी ॥ ७२ ॥
raktāmbaraparā pārśve kucābhau raktakañculau | cāmuṇḍī ca śiromālā sarvābharaṇabhūṣiṇī || 72 ||
कृष्णाम्बरधरी कृष्णलम्बकूर्चासभैरवी । वैष्णवी चैव वाराही श्यामवर्णा विशोभिनी ॥ ७३ ॥
kṛṣṇāmbaradharī kṛṣṇalambakūrcāsabhairavī | vaiṣṇavī caiva vārāhī śyāmavarṇā viśobhinī || 73 ||
चक्रं च दक्षिणे हस्ते शङ्खं वामकरेऽपरे । पूर्वे च वरदं वामे दक्षिणे त्वभयमुभौ ॥ ७४ ॥
cakraṃ ca dakṣiṇe haste śaṅkhaṃ vāmakare'pare | pūrve ca varadaṃ vāme dakṣiṇe tvabhayamubhau || 74 ||
पीताम्बरं च संरक्तां सर्वाभरणभूषिणीम् । एवं तु वैष्णवी प्रोक्ता वाराही दक्षिणे हलम् ॥ ७५ ॥
pītāmbaraṃ ca saṃraktāṃ sarvābharaṇabhūṣiṇīm | evaṃ tu vaiṣṇavī proktā vārāhī dakṣiṇe halam || 75 ||
वामहस्तोपरि पाशं दक्षिणेत्वभ करे । वरदं वामहस्ते तु सर्वाभरणभूषिणीम् ॥ ७६ ॥
vāmahastopari pāśaṃ dakṣiṇetvabha kare | varadaṃ vāmahaste tu sarvābharaṇabhūṣiṇīm || 76 ||
पीताम्बरधरं चैव कौमारी रक्तवर्णिनी । वरदं चाभयं पूर्वे वामे तु द्वारहस्तकौ ॥ ७७ ॥
pītāmbaradharaṃ caiva kaumārī raktavarṇinī | varadaṃ cābhayaṃ pūrve vāme tu dvārahastakau || 77 ||
दक्षिणे च स्यात् शक्तिं च वामहस्तकौ । श्यामवर्णाम्बरं चैव सर्वाभरणभूषिणीम् ॥ ७८ ॥
dakṣiṇe ca syāt śaktiṃ ca vāmahastakau | śyāmavarṇāmbaraṃ caiva sarvābharaṇabhūṣiṇīm || 78 ||
कौमारीलक्षणं प्रोक्तं ब्रह्माणी च चतुर्मुखी । वरदाभयहस्तौ च कुण्डिकासाक्षमालाधृक् ॥ ७९ ॥
kaumārīlakṣaṇaṃ proktaṃ brahmāṇī ca caturmukhī | varadābhayahastau ca kuṇḍikāsākṣamālādhṛk || 79 ||
वामेत्ववामपूर्वे तु चा यथाक्रमम् । शुद्धवस्त्राम्बरयुक्तां सर्वाभरणभूषिणीम् ॥ ८० ॥
vāmetvavāmapūrve tu cā yathākramam | śuddhavastrāmbarayuktāṃ sarvābharaṇabhūṣiṇīm || 80 ||
एवमुक्तं तथा ब्राह्मी रुद्रा णी श्वेतवर्णिनी । वरदाभयहस्तौ च पूर्वे च वामदक्षिणे ॥ ८१ ॥
evamuktaṃ tathā brāhmī rudrā ṇī śvetavarṇinī | varadābhayahastau ca pūrve ca vāmadakṣiṇe || 81 ||
वामे च हरिणं सव्ये परुशं परहस्तके । चर्माम्बरधरायुक्ता सर्वाभरणभूषिणी ॥ ८२ ॥
vāme ca hariṇaṃ savye paruśaṃ parahastake | carmāmbaradharāyuktā sarvābharaṇabhūṣiṇī || 82 ||
वामे तु शङ्खपत्रं स्यादवामे करकुण्डलम् । रुद्र णीलक्षणं प्रोक्तं चामुण्डी वामकर्णके ॥ ८३ ॥
vāme tu śaṅkhapatraṃ syādavāme karakuṇḍalam | rudra ṇīlakṣaṇaṃ proktaṃ cāmuṇḍī vāmakarṇake || 83 ||
शङ्खपत्रं च वामे तु शङ्खकुण्डलसंयुतम् । अन्यथा सर्वशक्तीनां ग्राहकुण्डलभूषिणीम् ॥ ८४ ॥
śaṅkhapatraṃ ca vāme tu śaṅkhakuṇḍalasaṃyutam | anyathā sarvaśaktīnāṃ grāhakuṇḍalabhūṣiṇīm || 84 ||
हारोपग्रीवसंयुक्तां केयूरकटकान्विताम् । मणिबन्धनवलयादिसर्वरत्नाङ्गुलीयकैः ॥ ८५ ॥
hāropagrīvasaṃyuktāṃ keyūrakaṭakānvitām | maṇibandhanavalayādisarvaratnāṅgulīyakaiḥ || 85 ||
बाहुमाल्यादिसंभूष्य साकं चुलकान्विताम् । उक्तानां सर्वशक्तीनां सर्वाभरणभूषितैः ॥ ८६ ॥
bāhumālyādisaṃbhūṣya sākaṃ culakānvitām | uktānāṃ sarvaśaktīnāṃ sarvābharaṇabhūṣitaiḥ || 86 ||
भद्र पीठोपरि देशे महिष्य हतः शिरः । तदूर्ध्वे तारकां देवीं स्थानकां ऋजुं भावयेत् ॥ ८७ ॥
bhadra pīṭhopari deśe mahiṣya hataḥ śiraḥ | tadūrdhve tārakāṃ devīṃ sthānakāṃ ṛjuṃ bhāvayet || 87 ||
चतुर्भुजं द्विनेत्रं च श्यामवर्णाङ्गशोभिताम् । किरीटमकुटोपेतां सर्वाभरणभूषिणीम् ॥ ८८ ॥
caturbhujaṃ dvinetraṃ ca śyāmavarṇāṅgaśobhitām | kirīṭamakuṭopetāṃ sarvābharaṇabhūṣiṇīm || 88 ||
पूर्वेऽभयं करे सव्ये चक्रं चापरदक्षिणे । ऊरुमूलाश्रितं वामवरदं वा करपूर्वके ॥ ८९ ॥
pūrve'bhayaṃ kare savye cakraṃ cāparadakṣiṇe | ūrumūlāśritaṃ vāmavaradaṃ vā karapūrvake || 89 ||
वामे चान्यकरे शङ्खं पीताम्बरधरं भवेत् । एवं कात्यायनीं प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ ९० ॥
vāme cānyakare śaṅkhaṃ pītāmbaradharaṃ bhavet | evaṃ kātyāyanīṃ proktaṃ śeṣaṃ prāguktavannayet || 90 ||
मूर्ध्नि च मध्ये ललाटमध्ये । नासाग्रमध्ये चन्द्र देशनाभेः । ऊर्ध्वाधो पादद्वयमध्यगुल्फे । कुर्यात्तु सूत्रं तु सुखासने च ॥ ९१ ॥
mūrdhni ca madhye lalāṭamadhye | nāsāgramadhye candra deśanābheḥ | ūrdhvādho pādadvayamadhyagulphe | kuryāttu sūtraṃ tu sukhāsane ca || 91 ||
तदेव सूत्रं त्वथ कायदेशे । चोरुद्वयोर्मध्यमके च सूत्रम् । जानुद्वयोर्मध्यमपादयोस्तम् । मध्ये च सूत्रमृजुस्थानके तत् ॥ ९२ ॥
tadeva sūtraṃ tvatha kāyadeśe | corudvayormadhyamake ca sūtram | jānudvayormadhyamapādayostam | madhye ca sūtramṛjusthānake tat || 92 ||
भङ्गद्वयो मूर्ध्नि ललाटसव्ये । नासापुटे सव्यकचक्षुर्मध्ये । नाभेश्च सव्ये स्थितपादवामे । सूत्रं हि तिष्ठेत्तु कुरु दासने च ॥ ९३ ॥
bhaṅgadvayo mūrdhni lalāṭasavye | nāsāpuṭe savyakacakṣurmadhye | nābheśca savye sthitapādavāme | sūtraṃ hi tiṣṭhettu kuru dāsane ca || 93 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).