सर्वेषामपि देवानां प्राकारान्तं प्रविष्टके । परितः परिवाराणां लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
sarveṣāmapi devānāṃ prākārāntaṃ praviṣṭake | paritaḥ parivārāṇāṃ lakṣaṇaṃ vakṣyate'dhunā || 1 ||
अध्यायः ३० · परिवारविधानम्
parivāravidhānam
A chapter of the Manasara.
85 versesSanskrit with transliteration
सर्वेषामपि देवानां प्राकारान्तं प्रविष्टके । परितः परिवाराणां लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
sarveṣāmapi devānāṃ prākārāntaṃ praviṣṭake | paritaḥ parivārāṇāṃ lakṣaṇaṃ vakṣyate'dhunā || 1 ||
इन्द्रा दिसाष्टदिग्देशे सान्तर्मण्डलसालके । परितो भूतबल्यर्थं क्षुद्र पीठं विनिक्षिपेत् ॥ २ ॥
indrā disāṣṭadigdeśe sāntarmaṇḍalasālake | parito bhūtabalyarthaṃ kṣudra pīṭhaṃ vinikṣipet || 2 ||
अष्टकं परिवाराणां कृत्वा चान्तरिहारके । द्वितीये च तृतीये च षोडशपरिवारकम् ॥ ३ ॥
aṣṭakaṃ parivārāṇāṃ kṛtvā cāntarihārake | dvitīye ca tṛtīye ca ṣoḍaśaparivārakam || 3 ||
द्वात्रिंशच्च तृतीये वा कल्पयेत्परिवारकम् । तृतीयात्पञ्चसालान्तं विनियोगाख्यमण्डपम् ॥ ४ ॥
dvātriṃśacca tṛtīye vā kalpayetparivārakam | tṛtīyātpañcasālāntaṃ viniyogākhyamaṇḍapam || 4 ||
कुर्यात् शिल्पिभिः प्राज्ञैः परिवारमिहोच्यते । इन्द्रे च वृषभं स्थाप्य आग्नेये चार्यकस्तथा ॥ ५ ॥
kuryāt śilpibhiḥ prājñaiḥ parivāramihocyate | indre ca vṛṣabhaṃ sthāpya āgneye cāryakastathā || 5 ||
याम्ये तु सप्तमात्र च नैरृत्ये तु गणेश्वरम् । पश्चिमे सुब्रह्मण्यं च ज्येष्ठादेवीं च वायवे ॥ ६ ॥
yāmye tu saptamātra ca nairṛtye tu gaṇeśvaram | paścime subrahmaṇyaṃ ca jyeṣṭhādevīṃ ca vāyave || 6 ||
सौम्ये तु केशवं स्थाप्य ईशान्ये भास्करं तथा । एवञ्चाष्टपरीवारं पूर्वद्वारालयं भवेत् ॥ ७ ॥
saumye tu keśavaṃ sthāpya īśānye bhāskaraṃ tathā | evañcāṣṭaparīvāraṃ pūrvadvārālayaṃ bhavet || 7 ||
पश्चिमद्वारहर्म्येषु पश्चिमे तु गुहं क्षिपेत् । अथवा विनायकं प्रोक्तं नैरृत्ये स्थापयेत्सुधीः ॥ ८ ॥
paścimadvāraharmyeṣu paścime tu guhaṃ kṣipet | athavā vināyakaṃ proktaṃ nairṛtye sthāpayetsudhīḥ || 8 ||
सोमईशानयोर्मध्ये दिविपञ्च विनिक्षिपेत् । वह्न्यन्तकद्वयोर्मध्ये सुब्रह्मण्यालयं भवेत् ॥ ९ ॥
somaīśānayormadhye divipañca vinikṣipet | vahnyantakadvayormadhye subrahmaṇyālayaṃ bhavet || 9 ||
याम्ये कात्यायनी वाथ द्वारं वाथ प्रकल्पयेत् । याम्ये नैरृत्ययोर्मध्ये वीरभद्रा लयं भवेत् ॥ १० ॥
yāmye kātyāyanī vātha dvāraṃ vātha prakalpayet | yāmye nairṛtyayormadhye vīrabhadrā layaṃ bhavet || 10 ||
नैरृत्ये तु गजमुखं पश्चिमे तु पितामहम् । प्रत्यङ्नैरृत्ययोर्मध्ये चैकपादेश्वरालयम् ॥ ११ ॥
nairṛtye tu gajamukhaṃ paścime tu pitāmaham | pratyaṅnairṛtyayormadhye caikapādeśvarālayam || 11 ||
पश्चिमोत्तरतः स्थाप्यं चाश्विनीदेवतालयम् । वायुकोणे प्रदेशे तु सरस्वत्यालयं भवेत् ॥ १२ ॥
paścimottarataḥ sthāpyaṃ cāśvinīdevatālayam | vāyukoṇe pradeśe tu sarasvatyālayaṃ bhavet || 12 ||
वायुचन्द्र द्वयोर्मध्ये ममोन्मन्यालयं भवेत् । चन्द्र स्थाने धनेशस्य चालयं कल्पयेद्बुधः ॥ १३ ॥
vāyucandra dvayormadhye mamonmanyālayaṃ bhavet | candra sthāne dhaneśasya cālayaṃ kalpayedbudhaḥ || 13 ||
सोमईशानयोर्मध्ये जनार्दनालयं भवेत् । ईशे च क्षेत्रपालं च वटुकं वा प्रतिष्ठयेत् ॥ १४ ॥
somaīśānayormadhye janārdanālayaṃ bhavet | īśe ca kṣetrapālaṃ ca vaṭukaṃ vā pratiṣṭhayet || 14 ||
ब्रह्मा-ईशानयोर्मध्ये भास्करस्यालयं भवेत् । अथवा वायुकोणे तु षण्मुखालयं भवेत् ॥ १५ ॥
brahmā-īśānayormadhye bhāskarasyālayaṃ bhavet | athavā vāyukoṇe tu ṣaṇmukhālayaṃ bhavet || 15 ||
परिवारं षोडशकमेवं प्रोक्तं मुनीश्वरैः । द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ॥ १६ ॥
parivāraṃ ṣoḍaśakamevaṃ proktaṃ munīśvaraiḥ | dvātriṃśatparivārasya lakṣaṇaṃ vakṣyate'dhunā || 16 ||
इन्द्रे च वृषभं स्थाप्य सत्यके नन्दिकेश्वरं । भृङ्गेशं भुवनेशं च कुर्यादन्तरिक्षके ॥ १७ ॥
indre ca vṛṣabhaṃ sthāpya satyake nandikeśvaraṃ | bhṛṅgeśaṃ bhuvaneśaṃ ca kuryādantarikṣake || 17 ||
आग्नेयं च धनस्थानं पूषा स्थाने तु चेन्दिराम् । विदधे चैकदन्तं स्यात् मुनेशं स्याद्गृहक्षते ॥ १८ ॥
āgneyaṃ ca dhanasthānaṃ pūṣā sthāne tu cendirām | vidadhe caikadantaṃ syāt muneśaṃ syādgṛhakṣate || 18 ||
याम्ये चामुण्डिकां स्थाप्य गन्धर्वे पुष्पमण्डलम् । भृङ्गराजपदे चैव नैवेद्यार्पणवेश्मकम् ॥ १९ ॥
yāmye cāmuṇḍikāṃ sthāpya gandharve puṣpamaṇḍalam | bhṛṅgarājapade caiva naivedyārpaṇaveśmakam || 19 ||
मृषे च वस्त्रालयं स्यान्नैरृत्ये तु विनायकम् । दौवारिकपदे चैव मूर्तिशूलं समर्चयेत् ॥ २० ॥
mṛṣe ca vastrālayaṃ syānnairṛtye tu vināyakam | dauvārikapade caiva mūrtiśūlaṃ samarcayet || 20 ||
सुग्रीवे च त्रिमूर्तिं स्यात्स्थापयेदेकहर्म्यके । पुष्पदन्तपदे चैव पुष्पबन्धनमण्डपम् ॥ २१ ॥
sugrīve ca trimūrtiṃ syātsthāpayedekaharmyake | puṣpadantapade caiva puṣpabandhanamaṇḍapam || 21 ||
वरुणस्य पदे स्थाप्य चार्धनारीश्वरालयम् । असुरस्यपदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २२ ॥
varuṇasya pade sthāpya cārdhanārīśvarālayam | asurasyapade caiva kuryāttu ratnamaṇḍapam || 22 ||
देवानां भूषणावासं स्थापयेच्छेषभागिके । पुस्तकावासनं कुर्याद् रोगस्य च पदे तथा ॥ २३ ॥
devānāṃ bhūṣaṇāvāsaṃ sthāpayeccheṣabhāgike | pustakāvāsanaṃ kuryād rogasya ca pade tathā || 23 ||
षण्मुखस्यालयं कुर्याद्वायुकोणे विचक्षणः । नागस्य च पदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २४ ॥
ṣaṇmukhasyālayaṃ kuryādvāyukoṇe vicakṣaṇaḥ | nāgasya ca pade caiva kuryāttu ratnamaṇḍapam || 24 ||
देवानां भूषणावासं स्थाप्यं च मुख्यदेशके । अथवा पार्वतो स्थाप्या भल्लाटस्यपदेऽपि च ॥ २५ ॥
devānāṃ bhūṣaṇāvāsaṃ sthāpyaṃ ca mukhyadeśake | athavā pārvato sthāpyā bhallāṭasyapade'pi ca || 25 ||
सोमे च विष्णुं संस्थाप्य मनोजस्यालयं तु वा । मृगे च स्थापनार्थं च गन्धद्र व्यादिमण्डपम् ॥ २६ ॥
some ca viṣṇuṃ saṃsthāpya manojasyālayaṃ tu vā | mṛge ca sthāpanārthaṃ ca gandhadra vyādimaṇḍapam || 26 ||
अदिते दक्षिणामूर्तिमुदिते चान्तदानकम् । ईशे च स्थापयेदेकं रुद्र मूर्तेस्तथालयम् ॥ २७ ॥
adite dakṣiṇāmūrtimudite cāntadānakam | īśe ca sthāpayedekaṃ rudra mūrtestathālayam || 27 ||
अथवा यज्ञशालां च स्थापयेद् भोगमण्डपम् । पर्जन्ये मज्जनार्थाय जलपूरितमण्डपम् ॥ २८ ॥
athavā yajñaśālāṃ ca sthāpayed bhogamaṇḍapam | parjanye majjanārthāya jalapūritamaṇḍapam || 28 ||
अथवा रुद्र देवस्य यागमण्डपमेव च । जयन्ते भास्करं स्थाप्य चेशे पाशुपतं तथा ॥ २९ ॥
athavā rudra devasya yāgamaṇḍapameva ca | jayante bhāskaraṃ sthāpya ceśe pāśupataṃ tathā || 29 ||
अथवा कामकोष्ठं स्यादालयं कल्पयेत्सुधीः । द्वात्रिंशन्मूर्तिरेवं स्यात्कुर्यात्तु परिवारकम् ॥ ३० ॥
athavā kāmakoṣṭhaṃ syādālayaṃ kalpayetsudhīḥ | dvātriṃśanmūrtirevaṃ syātkuryāttu parivārakam || 30 ||
तृतीये सौम्यभागे तु पानीयस्य जलं क्षिपेत् । भृशे वाथ महेन्द्रे वा भक्तरूपं प्रतिष्ठयेत् ॥ ३१ ॥
tṛtīye saumyabhāge tu pānīyasya jalaṃ kṣipet | bhṛśe vātha mahendre vā bhaktarūpaṃ pratiṣṭhayet || 31 ||
छत्रं च चामराकारं जयन्तस्य पदे तथा । तण्डुलं मण्डपं याम्ये पावके पचनालयम् ॥ ३२ ॥
chatraṃ ca cāmarākāraṃ jayantasya pade tathā | taṇḍulaṃ maṇḍapaṃ yāmye pāvake pacanālayam || 32 ||
गृहक्षते धान्यशाला ईशे च यागमण्डपम् । गन्धर्वे भृङ्गराजे च स्थापकान्वद्यायम् ॥ ३३ ॥
gṛhakṣate dhānyaśālā īśe ca yāgamaṇḍapam | gandharve bhṛṅgarāje ca sthāpakānvadyāyam || 33 ||
पूषे च वितथे चैवमालये परिवारकान् । सोमे भल्लाट मुख्ये च कल्पयेत्कोशमण्डपम् ॥ ३४ ॥
pūṣe ca vitathe caivamālaye parivārakān | some bhallāṭa mukhye ca kalpayetkośamaṇḍapam || 34 ||
पुष्पदन्ते सूकरौ च शस्त्रमण्डपसंयुतम् । वरुणे वासुरे वापि वस्तुनिक्षेपमण्डपम् ॥ ३५ ॥
puṣpadante sūkarau ca śastramaṇḍapasaṃyutam | varuṇe vāsure vāpi vastunikṣepamaṇḍapam || 35 ||
नागे वापि मृगे वापि देवभूषणमण्डपम् । आदितौ चोदितौ वापि शयनार्थं च मण्डपम् ॥ ३६ ॥
nāge vāpi mṛge vāpi devabhūṣaṇamaṇḍapam | āditau coditau vāpi śayanārthaṃ ca maṇḍapam || 36 ||
आस्थानमण्डपं चैव चतुर्दिक्षु विदिक्षु च । स्नापनार्थमण्डपं चापि स्नानमण्डपमेव च ॥ ३७ ॥
āsthānamaṇḍapaṃ caiva caturdikṣu vidikṣu ca | snāpanārthamaṇḍapaṃ cāpi snānamaṇḍapameva ca || 37 ||
गृहक्षते यमे वापि वाहनस्थानमण्डपम् । मर्यादि भित्तिकस्यान्तं मण्डपं वा नरालयम् ॥ ३८ ॥
gṛhakṣate yame vāpi vāhanasthānamaṇḍapam | maryādi bhittikasyāntaṃ maṇḍapaṃ vā narālayam || 38 ||
श्रद्धालिङ्गं तथा स्थाप्य यथा दिक्षु विदिक्षु च । अनलानिलकोणे वा स्थापत्यालयमेव च ॥ ३९ ॥
śraddhāliṅgaṃ tathā sthāpya yathā dikṣu vidikṣu ca | analānilakoṇe vā sthāpatyālayameva ca || 39 ||
सत्यके वा चान्तरिक्षे वाद्यकरालयं भवेत् । पूषे च वितथे चापि नाट्या कारालयं भवेत् ॥ ४० ॥
satyake vā cāntarikṣe vādyakarālayaṃ bhavet | pūṣe ca vitathe cāpi nāṭyā kārālayaṃ bhavet || 40 ||
गृहक्षते मृषश्चान्तं गणिकादीनां तथालयम् । नैरृत्यादावरुणान्तं च गणिकास्यालयं भवेत् ॥ ४१ ॥
gṛhakṣate mṛṣaścāntaṃ gaṇikādīnāṃ tathālayam | nairṛtyādāvaruṇāntaṃ ca gaṇikāsyālayaṃ bhavet || 41 ||
वरुणाद्वायुपर्यन्तमारामकारकालयम् । वायुकोणादिसोमान्तं नित्यकर्मकरालयम् ॥ ४२ ॥
varuṇādvāyuparyantamārāmakārakālayam | vāyukoṇādisomāntaṃ nityakarmakarālayam || 42 ||
सोमादीशानपर्यन्तं गान्धर्वालयमेव च । ईशादेरिन्द्र पर्यन्तं संहितार्थं च मण्डपम् ॥ ४३ ॥
somādīśānaparyantaṃ gāndharvālayameva ca | īśāderindra paryantaṃ saṃhitārthaṃ ca maṇḍapam || 43 ||
तद्वाह्ये तत्प्रदेशे वा गोशालां परिकल्पयेत् । ईशस्थाने तु कूपं स्यात्तटाकं वा प्रकल्पयेत् ॥ ४४ ॥
tadvāhye tatpradeśe vā gośālāṃ parikalpayet | īśasthāne tu kūpaṃ syāttaṭākaṃ vā prakalpayet || 44 ||
चतुष्कोणे तपस्वीनां सत्रावासमठं भवेत् । समीपे वीरभद्रा णां गृहश्रेणीं च कल्पयेत् ॥ ४५ ॥
catuṣkoṇe tapasvīnāṃ satrāvāsamaṭhaṃ bhavet | samīpe vīrabhadrā ṇāṃ gṛhaśreṇīṃ ca kalpayet || 45 ||
महामर्यादि देशे तु वर्णानां वासयोग्यकम् । पश्चिमे विप्रसङ्ग स्याद्दक्षिणे क्षत्त्रियस्य च ॥ ४६ ॥
mahāmaryādi deśe tu varṇānāṃ vāsayogyakam | paścime viprasaṅga syāddakṣiṇe kṣattriyasya ca || 46 ||
उत्तरे वैश्यसङ्गः स्यात्पूर्वे तु शूद्र सद्मकम् । तद्बाह्ये सर्वजातीनामालयं कल्पयेत्सुधीः ॥ ४७ ॥
uttare vaiśyasaṅgaḥ syātpūrve tu śūdra sadmakam | tadbāhye sarvajātīnāmālayaṃ kalpayetsudhīḥ || 47 ||
द्वारस्य वामभागे तु गजाश्वादेस्तथालयम् । उदिते चेशकोणे तु कल्पयेदर्धमण्डपम् ॥ ४८ ॥
dvārasya vāmabhāge tu gajāśvādestathālayam | udite ceśakoṇe tu kalpayedardhamaṇḍapam || 48 ||
वायुकोणे तु बाह्ये वा पुष्पोद्यानं तु कल्पयेत् । प्राकारद्वार सर्वेषां कल्पयेद् वृषभालयम् ॥ ४९ ॥
vāyukoṇe tu bāhye vā puṣpodyānaṃ tu kalpayet | prākāradvāra sarveṣāṃ kalpayed vṛṣabhālayam || 49 ||
वृषभस्योपरि भागे तु कल्पयेद् बलिपीठकम् । गोपुरस्य बहिर्वापि स्थापयेद् बलिपीठकम् ॥ ५० ॥
vṛṣabhasyopari bhāge tu kalpayed balipīṭhakam | gopurasya bahirvāpi sthāpayed balipīṭhakam || 50 ||
प्रासाददण्डमानेन चैकं वा द्वित्रिदण्डकम् । गोपुराद् बलिपीठान्तं सान्तरं मानयेत्सुधिः ॥ ५१ ॥
prāsādadaṇḍamānena caikaṃ vā dvitridaṇḍakam | gopurād balipīṭhāntaṃ sāntaraṃ mānayetsudhiḥ || 51 ||
एकद्वित्रिचतुष्पञ्चहस्तं पीठविशालकम् । प्रासादार्धं त्रिभागैकं पञ्चभागत्रिभागिकम् ॥ ५२ ॥
ekadvitricatuṣpañcahastaṃ pīṭhaviśālakam | prāsādārdhaṃ tribhāgaikaṃ pañcabhāgatribhāgikam || 52 ||
अथवा द्वित्रिभागं स्यात्पीठविस्तारमेव च । पीठतारसमोच्चं वा पादार्धाधिकमेव च ॥ ५३ ॥
athavā dvitribhāgaṃ syātpīṭhavistārameva ca | pīṭhatārasamoccaṃ vā pādārdhādhikameva ca || 53 ||
उपानादिपट्टिकान्तं स्यात्पीठतुङ्गमुदीरितम् । पीठतुङ्गोदयार्धेन पद्मतुङ्गं प्रकल्पयेत् ॥ ५४ ॥
upānādipaṭṭikāntaṃ syātpīṭhatuṅgamudīritam | pīṭhatuṅgodayārdhena padmatuṅgaṃ prakalpayet || 54 ||
वप्रे वा पट्टिके वापि विस्तारं परिकल्पयेत् । विस्तारे पञ्चभागे तु वेदार्धं पद्मविस्तृतम् ॥ ५५ ॥
vapre vā paṭṭike vāpi vistāraṃ parikalpayet | vistāre pañcabhāge tu vedārdhaṃ padmavistṛtam || 55 ||
पद्मतारत्रिभागैकं कर्णिकाविस्तृतं भवेत् । विस्तारसममुत्सेधं वृत्तं वा पट्टमेव वा ॥ ५६ ॥
padmatāratribhāgaikaṃ karṇikāvistṛtaṃ bhavet | vistārasamamutsedhaṃ vṛttaṃ vā paṭṭameva vā || 56 ||
भद्रं वा पद्मसंयुक्तं तुङ्गं प्रागुक्तवन्नयेत् । वृत्तं वा चतुरश्रं वा मूलप्रासादवद् भवेत् ॥ ५७ ॥
bhadraṃ vā padmasaṃyuktaṃ tuṅgaṃ prāguktavannayet | vṛttaṃ vā caturaśraṃ vā mūlaprāsādavad bhavet || 57 ||
अधिष्ठानाकारवत्पीठं हर्म्याधिष्ठानवद् भवेत् । द्वादशाङ्गुलविस्तारमुत्सेधं क्षुद्र विस्तरम् ॥ ५८ ॥
adhiṣṭhānākāravatpīṭhaṃ harmyādhiṣṭhānavad bhavet | dvādaśāṅgulavistāramutsedhaṃ kṣudra vistaram || 58 ||
उपाब्जं करिकर्णयुक्तं कुर्यात्तत्क्षुद्र पीठकम् । वृषभस्यालयं मानं पूर्ववत्परिकल्पयेत् ॥ ५९ ॥
upābjaṃ karikarṇayuktaṃ kuryāttatkṣudra pīṭhakam | vṛṣabhasyālayaṃ mānaṃ pūrvavatparikalpayet || 59 ||
मण्डपाकारवत्कुर्याद्यन्मानोरम्यमानकम् ॥ ६० ॥
maṇḍapākāravatkuryādyanmānoramyamānakam || 60 ||
विष्णवालयपरिवारम् । विष्णवालयपरिवारलक्षणं वक्ष्यतेऽधुना । पञ्चसालमहाद्वारे द्वारदेवान्प्रकल्पयेत् ॥ ६१ ॥
viṣṇavālayaparivāram | viṣṇavālayaparivāralakṣaṇaṃ vakṣyate'dhunā | pañcasālamahādvāre dvāradevānprakalpayet || 61 ||
द्वारस्य दक्षिणे स्थाप्य चण्डराक्षसरूपकम् । वामे प्रचण्डसंयुक्तं रूपं राक्षसमेव च ॥ ६२ ॥
dvārasya dakṣiṇe sthāpya caṇḍarākṣasarūpakam | vāme pracaṇḍasaṃyuktaṃ rūpaṃ rākṣasameva ca || 62 ||
दक्षिणे चक्रसंयुक्तं वामे तत्पाञ्चजन्यकम् । दक्षिणे च गणेशं च वामे कात्यायनीं तथा ॥ ६३ ॥
dakṣiṇe cakrasaṃyuktaṃ vāme tatpāñcajanyakam | dakṣiṇe ca gaṇeśaṃ ca vāme kātyāyanīṃ tathā || 63 ||
दक्षिणे भास्करं चैव वामभागे निशापतिम् । दक्षिणे च भुजङ्गे च द्वारवामे दिवः पतिम् ॥ ६४ ॥
dakṣiṇe bhāskaraṃ caiva vāmabhāge niśāpatim | dakṣiṇe ca bhujaṅge ca dvāravāme divaḥ patim || 64 ||
प्रथमादिपञ्चमान्तं स्यात्स्थापयेद् द्वारपञ्चके । एवं तु दशधा देवान्द्वाराणामुदितं क्रमात् ॥ ६५ ॥
prathamādipañcamāntaṃ syātsthāpayed dvārapañcake | evaṃ tu daśadhā devāndvārāṇāmuditaṃ kramāt || 65 ||
वैनतेयः स्यात्सालासालान्तरा भवेत् । प्रमुखे चोत्तरे देशे विष्वक्सेनालयं भवेत् ॥ ६६ ॥
vainateyaḥ syātsālāsālāntarā bhavet | pramukhe cottare deśe viṣvaksenālayaṃ bhavet || 66 ||
अन्तर्मण्डलदेशे तु पूर्ववद् बलिपीठकम् । द्वारस्य दक्षिणे पार्श्वे हर्म्यं कुर्याद्दिवस्पतेः ॥ ६७ ॥
antarmaṇḍaladeśe tu pūrvavad balipīṭhakam | dvārasya dakṣiṇe pārśve harmyaṃ kuryāddivaspateḥ || 67 ||
यथैवाग्निकोणे तु मृगैः लयमेव च । याम्ये कात्यायनी प्रोक्तं नैरृत्ये तु विनायकम् ॥ ६८ ॥
yathaivāgnikoṇe tu mṛgaiḥ layameva ca | yāmye kātyāyanī proktaṃ nairṛtye tu vināyakam || 68 ||
पश्चिमे दिक्ष्वनन्तं स्याद्वायौ वासिष्टकालयम् । उत्तरे धनदं चैव ईशान्ये भास्करं तथा ॥ ६९ ॥
paścime dikṣvanantaṃ syādvāyau vāsiṣṭakālayam | uttare dhanadaṃ caiva īśānye bhāskaraṃ tathā || 69 ||
कात्यायनी विना याम्ये कुर्याद्वाथ पितामहः । धनदं च विना सौम्ये शङ्करस्यालयं तु वा ॥ ७० ॥
kātyāyanī vinā yāmye kuryādvātha pitāmahaḥ | dhanadaṃ ca vinā saumye śaṅkarasyālayaṃ tu vā || 70 ||
एवं चाष्टपरीवारं षोडशं परिवारकम् । पूर्वोक्तदेवतासङ्घैः किञ्चित्किञ्चिद्विशिष्यते ॥ ७१ ॥
evaṃ cāṣṭaparīvāraṃ ṣoḍaśaṃ parivārakam | pūrvoktadevatāsaṅghaiḥ kiñcitkiñcidviśiṣyate || 71 ||
आग्नेये च गणेशं स्यान्नैरृत्ये तु गुहं क्षिपेत् । वायव्ये तु महालक्ष्मीं चैशान्ये च सुदर्शनम् ॥ ७२ ॥
āgneye ca gaṇeśaṃ syānnairṛtye tu guhaṃ kṣipet | vāyavye tu mahālakṣmīṃ caiśānye ca sudarśanam || 72 ||
सोमईशानयोर्मध्ये शङ्करालयमेव च । वायुसोमोभयोर्मध्ये विष्णुदुर्गं तथालयम् ॥ ७३ ॥
somaīśānayormadhye śaṅkarālayameva ca | vāyusomobhayormadhye viṣṇudurgaṃ tathālayam || 73 ||
प्रत्यङ्नैरृत्ययोर्मध्ये चक्रमूर्तेस्तथालयम् । याम्ये च बलभद्रं स्यादनन्तं च जयन्तके ॥ ७४ ॥
pratyaṅnairṛtyayormadhye cakramūrtestathālayam | yāmye ca balabhadraṃ syādanantaṃ ca jayantake || 74 ||
नैरृत्ये तु बौद्धं स्याज्जयन्ते पौत्रिकालयम् । शेषं प्रागुक्तवत्स्थाप्य षोडशं परिवारकम् ॥ ७५ ॥
nairṛtye tu bauddhaṃ syājjayante pautrikālayam | śeṣaṃ prāguktavatsthāpya ṣoḍaśaṃ parivārakam || 75 ||
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना । चतुर्विंशतिमूर्तीनां दिक्पालक सहैव च ॥ ७६ ॥
dvātriṃśatparivārasya lakṣaṇaṃ vakṣyate'dhunā | caturviṃśatimūrtīnāṃ dikpālaka sahaiva ca || 76 ||
एकानावरणैः स्थाप्य चावतारान्दशापि । मत्स्यः कूर्म विना कुर्यात्तत्फलानां विना तथा ॥ ७७ ॥
ekānāvaraṇaiḥ sthāpya cāvatārāndaśāpi | matsyaḥ kūrma vinā kuryāttatphalānāṃ vinā tathā || 77 ||
पूर्वोक्तमण्डपानां च क्तदेवान् यथेष्टवत् । कुर्याद्विष्णुपरीवारं शेषं प्रागुक्तवन्नयेत् ॥ ७८ ॥
pūrvoktamaṇḍapānāṃ ca ktadevān yatheṣṭavat | kuryādviṣṇuparīvāraṃ śeṣaṃ prāguktavannayet || 78 ||
बौद्धं च जिनकं चैव तत्तच्छास्त्रोक्तमार्गवत् । तत्तद्वाहनं स्थाप्यं बलिपीठं च पूर्ववत् ॥ ७९ ॥
bauddhaṃ ca jinakaṃ caiva tattacchāstroktamārgavat | tattadvāhanaṃ sthāpyaṃ balipīṭhaṃ ca pūrvavat || 79 ||
यक्ष यक्षीश्च तीर्थानि कुर्यात्तत्परिवारकम् । अन्याश्च क्षुद्र देवाना देवीनां परिवारकम् ॥ ८० ॥
yakṣa yakṣīśca tīrthāni kuryāttatparivārakam | anyāśca kṣudra devānā devīnāṃ parivārakam || 80 ||
तत्तद्वाहनपूर्वा च भूतपैशाचकं तथा । गणेशं क्षेत्रपालादीन् कुर्यात्तत्परिवारकम् ॥ ८१ ॥
tattadvāhanapūrvā ca bhūtapaiśācakaṃ tathā | gaṇeśaṃ kṣetrapālādīn kuryāttatparivārakam || 81 ||
अन्तर्बहिश्च बल्यर्थं कुर्यात्पीठं तु पूर्ववत् । चाभुण्डालय शङ्करालय महाविष्णोस्तथालये ॥ ८२ ॥
antarbahiśca balyarthaṃ kuryātpīṭhaṃ tu pūrvavat | cābhuṇḍālaya śaṅkarālaya mahāviṣṇostathālaye || 82 ||
बौद्धस्यालये तज्जिनालयमपि क्षुद्रा लये सर्वशः । शास्त्रस्यालयतोरणे कथितं तत्परिवारक कुर्वीत ॥ ८३ ॥
bauddhasyālaye tajjinālayamapi kṣudrā laye sarvaśaḥ | śāstrasyālayatoraṇe kathitaṃ tatparivāraka kurvīta || 83 ||
श्रममनु ते क्वपि विना कृत्वा तु संपद् भवेत् ॥ ८४ ॥
śramamanu te kvapi vinā kṛtvā tu saṃpad bhavet || 84 ||
यन्मूलहर्म्ये वृषभादि विष्णुरादि । मण्डपादि गरुडादि गोपुरादीन् । तन्मूलहर्म्यपरितः स्थित पश्यते अस्मिन् । कुर्यात्तु सर्वपरिवारमिदं प्रशस्तम् ॥ ८५ ॥
yanmūlaharmye vṛṣabhādi viṣṇurādi | maṇḍapādi garuḍādi gopurādīn | tanmūlaharmyaparitaḥ sthita paśyate asmin | kuryāttu sarvaparivāramidaṃ praśastam || 85 ||
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).