द्वाविंशोऽध्यायः । मार्कण्डेय उवाच । ततस्तं चक्रवाकौ द्वावूचतुः सहचारिणौ । आवां ते सचिवौ स्यावस्तव प्रियहितैषिणौ ॥ १ ॥
dvāviṃśo'dhyāyaḥ | mārkaṇḍeya uvāca | tatastaṃ cakravākau dvāvūcatuḥ sahacāriṇau | āvāṃ te sacivau syāvastava priyahitaiṣiṇau || 1 ||